स्वागतम्

 आइए सरल विधि से संस्कृत में बात करना सीखें । यहाँ 👇🏻 क्लिक किजिए और प्रतिदिन क्रमशः एक एक पाठ का अभ्यास किजिए 👇🏻

Click here क्लिक क्लिक 



क्रीडाया सह ज्ञानम् (गुजरातराज्यस्य जनपदानां प्रहेलिका:)

                                नवीनीकरण

                  क्रीडाया सह ज्ञानम्
   (गुजरातराज्यस्य जनपदानां प्रहेलिका:)

यत्र सोमनाथनज्योतिर्लिङ्गमस्ति |
यत्र गीराभ्यारणमस्ति |
यत्र भालकातीर्थ: प्राचितीर्थ: च स्त: |
यत्रत्य: विख्यात-केशरनामकम् आम्रफलमस्ति |
तर्हि वदन्तु बालका: अहं क: अस्मि ?  || १ ||

यत्र गुजरातस्य उच्चतमं पर्वतः गीरनारः अस्ति |
यः मुंगफल्याः उत्पादनेषु प्रथमः अस्ति |
यत्र नरसिंहस्य वासः आपागीगाया: समाधिः च स्त: |
यत्र सक्करः उपवनमस्ति |
तर्हि वदन्तु बालका: अहं क: अस्मि ?  || २ ||

अहं महात्मागान्धिन: जन्मभूमि: अस्मि |
यत्र कीर्ति-भारतमन्दिरं स्त: |
मां केचन् जना: घेडप्रदेश: तु केचन् जना: सुदामापुरी कथयन्ति |
यत्र माता हर्षदा तथा माधुपुरे माधवराय: विराजते |
तर्हि वदन्तु बालका: अहं क: अस्मि ? || ३ ||

अहं सौराष्ट्रस्य पेरिस इति नाम्नापि प्रसिद्धयामि |
यत्र रिलायन्स: उद्योग: च आयुर्वेद:-विश्वविद्यालय: स्त: |
लाखोटा-प्रासाद: तथा द्विप: नामस्य पिरोटन: स्त: |
यत्र सैनिक-विद्यालय: अपि अस्ति | तर्हि वदन्तु बालका: अहं क: अस्मि ?  || ४ ||

मम प्राचीन नाम द्वारवती अस्ति |
यत्र शारदापीठमस्ति |
यत्र द्वारकाधीशस्य जगतमन्दिरमास्ति |
यत्र टाटाकेमिकल्स् तथा लवणोत्पादनस्य यन्त्रागारौ स्त: |
यत्र नागेश्वर: च द्वारका नाम द्विप: स्त: |
तर्हि वदन्तु बालका: अहं क: अस्मि ?  || ५ ||

अहं सौराष्ट्रस्य 'शान' अस्मि |
यत्र सौराष्ट्र-विश्वविद्यालय: तथा कबागान्धिन: मुख्यद्वारं स्त: |
यत्र रणुजायां रामापीर: विरपुरे जलाराम: च स्त: |
यत्र घेलासोमनाथ: अपि अस्ति |
तर्हि वदन्तु बालका: अहं क: अस्मि ?  || ६ ||

यत्र मूलदासस्य समाधि: च तैलस्य यन्त्रागारौ स्त: |
अहं कविकलापि च कान्तस्य जन्मभूमि: अस्मि |
यत्र पीपावाव-पत्तनमस्ति |
तर्हि वदन्तु बालका: अहं क: अस्मि ?  || ७ ||

अहं मच्छु नद्यातटे निवसामि |
यत्र दयानन्दस्य जन्मभूमि: अस्ति |
अहमोत्तम घटिकाभ्य: प्रसिद्ध: अस्मि |
यत्र नवलखी-पत्तनं च दोलायमान: सेतु: स्त: |
यत्र शिल्पकलाया: श्रेष्ठमोदाहरणं मणिमन्दिरमपि अस्ति |
तर्हि वदन्तु बालका: अहं क: अस्मि ?  || ८ ||

अहं सौराष्ट्रस्य प्रवेशद्वारमस्मि |
य: झवेरचन्द: मेघाणीमहोदयस्य कर्मभूमि: अस्ति |
यत्र स्वामिनारायणस्य महत्वपूर्णं तिर्थस्थानमस्ति |
अहं जामफलस्य उत्पादने तृतिय: स्थाने अस्मि |
तर्हि वदन्तु बालका: अहं क: अस्मि ?  || ९ |

अहं पियन्गु तथा दाडिमफलस्य उत्पादने श्रेष्ठत्तं स्थाने अस्मि |
यत्र हिरणस्य राष्ट्रियोद्यानमस्ति |
अहं सौराष्ट्रस्य संस्कारीनगरी अस्मि |
यत्र पालीताणायां जैनधर्मस्य ८६३ मन्दिराणि सन्ति |
तर्हि वदन्तु बालका: अहं क: अस्मि ? || १० ||

अहमरवल्ली नाम्ना पर्वतेन प्रसिद्ध: अस्मि |
यत्र महादेवग्रामे गान्घिमहोदयस्य समाधि: अस्ति |
यत्र गदाधारीविष्णु: प्रतिमा अस्ति |
मम मुख्य-राजधानी मोडासानगरमस्ति |
तर्हि वदन्तु बालका: अहं क: अस्मि ? || ११ ||

यत्र गायकवाडस्य पूरातनं प्रासाद: अस्ति |
यत्र उकाइ तथा काकरापार सेतू स्त: |
यत्र जुगतरामस्य 'वेडछी' आश्रम: अस्ति |
तर्हि वदन्तु बालका: अहं क: अस्मि ? || १२ ||

यत्र विश्वे प्रथमं डायनोसरस्य अण्डा: प्राप्ता: |
यत्र महीनद्यामुपरि कडाणा-वणाकबोरी इति नाम्ना सिंचनयोजना स्त: |
यत्र 'गार्डन पेलेस' तथा 'लुणेश्वरमहादेवमन्दिरं' स्त: |
मम मुख्य राजधानी लुणावाडा अस्ति |
तर्हि वदन्तु बालका: अहं क: अस्मि ? || १३ ||

अहं राठवा-जात्या: 'पिठोरा' इति नाम्ना चित्राण्या प्रसिद्ध: अस्मि |
यत्र आदीवासी जनकलां संग्रहालयम् अस्ति |
मम भूगर्भे विश्वस्य अधिकं फलोरस्पार प्राप्तं भवति |
मम संखेडानगर कलात्मककलाया: कौशल्याय प्रसिद्ध: अस्ति |
तर्हि वदन्तु बालका: अहं क: अस्मि ? || १४ ||

अहं 'हाफुस' इति नाम्ना आम्रं फलै: प्रसिद्ध: अस्मि |
यत्र पारसीजात्यां काशी नाम्ना प्रसिद्ध: उदवाडानगरम्  अस्ति |
यत्र तीथल-पर्यटनं तथा वृदावन-चलचित्रणालयं स्त: |
यत्र गुजराते सर्वाधिकं वर्षां भवति |
तर्हि वदन्तु बालका: अहं क: अस्मि ? || १५ ||

अहं पूर्णानद्यास्तीरे निवसामि |
यत्र उमराट-पर्यटन स्थानमस्ति |
यत्र ऐतिहासिक-स्थान: दांडी अस्ति |
यत्र गणदेवीग्रामस्य 'गुड़ं' विख्यात: अस्ति |
यत्र वासंदा इति नाम्ना राष्ट्रियोद्यानमस्ति |
तर्हि वदन्तु बालका: अहं क: अस्मि ? || १६ ||

अहं विस्तारे सर्वाधिकं लघुत्तरमस्मि |
यत्र सापुतारा इति नाम्ना वातामयं स्थलमस्ति |
यत्र आदीवासी आश्रम-शालामस्ति |
यत्रेकमपि तिर्थस्थलं नास्ति |
तर्हि वदन्तु बालका: अहं क: अस्मि ? || १७ ||

मां जना: सुवर्णस्य 'मूरत' वा 'डायमंड नगरम्'  कथयन्ते |
यत्र आंग्लजनै: व्यापाराय सर्वप्रथमं 'कोठी' स्थापिता |
यत्र सत्याग्रस्य भूमि: तथा डुमसस्य समुद्रतीरं स्त: |
अहं तापीनद्यास्तीरे निवसामि |
तर्हि वदन्तु बालका: अहं क: अस्मि ? || १८ ||

यत्र नर्मदानद्यामुपरि सरदार-सरोवरं सेतु: अस्ति |
यत्र एकसहस्त्रगवाक्ष-रजवाडी-प्रासाद: अस्ति |
यत्र विश्वस्य सर्वोतमं गुरुत्तरं प्रतिमा 'स्टेच्यु ऑफ युनिटी' अस्ति |
यत्र गुजरातस्य सर्वोतमं गुरुत्तरं नदी अस्ति |
तर्हि वदन्तु बालका: अहं क: अस्मि ? || १९ ||

यत्र गुजरातस्य सर्वोतमं गुरुत्तरं तैलक्षेत्रमस्ति |
यत्र विश्वस्य सर्वोतमं गुरुत्तरं युरिया योजनामस्ति |
यत्र गुजरातस्य सर्वेतमं दीर्घत्तरं सेतु: 'गोल्डन ब्रीज' अस्ति |
यत्र ६०० वर्षाणि पूरातनं 'कबीरवड' अस्ति |
तर्हि वदन्तु बालका: अहं क: अस्मि ? || २० ||

अहं गुजरातस्य 'संस्कारी नगरी' इति नाम्ना प्रसिद्ध: अस्मि |
यत्र सर्वोतमं गुरुत्तरं पुस्तकालयं तथा 'आजवा' पर्यटनं स्त: |
यत्र महाराजा सयाजीराव-विश्वविद्यालयमस्ति |
यत्र गुरुत्तरं लक्ष्मी विलास-प्रासाद: अस्ति |
तर्हि वदन्तु बालका: अहं क: अस्मि ? || २१ ||

यत्र सरदारस्य मूलं स्थलं 'करमसद' अस्ति |
यत्र सर्वोत्तं गुरुत्तर: 'अमूल' इति नाम्ना दुग्धालयमस्ति | 
यत्र विद्यानगरेण प्रसिद्ध: वल्लभनगरमस्ति |
यत्र 'खम्भात' इति नाम्ना पत्तनमस्ति |
तर्हि वदन्तु बालका: अहं क: अस्मि ? || २२ ||

यत्र सर्वाधिक: दुग्धपशव: सन्ति |
यत्र सरदारस्य जन्मभूमि: नडियादनगरं तथा 'भम्मरियो' इति नाम्ना कुपं स्त: |
यत्र डाकोरनगरे रणछोडरायस्य प्रसिद्ध: मन्दिरमस्ति |
अहं खेडा-सत्याग्रहाय प्रसिद्धमस्मि |
तर्हि वदन्तु बालका: अहं क: अस्मि ? || २३ ||

यत्र सर्वाधिक: आदिवासी-जनसङ्ख्या सन्ति |
यत्र गुजराते सर्वप्रथमं सूर्योदयं भवति |
यत्र गुजराते बहु-न्यूनं साक्षरता अस्ति |
अहं लवेटिकाया: कृते बहु विख्यातमस्मि |
तर्हि वदन्तु बालका: अहं क: अस्मि ? || २४ ||

यत्र 'पावागढ' इति नाम्ना पर्वतोपरि कालिका- मातु: मन्दिमस्ति |
यत्र 'जांबुघोडा रींछ' अभ्यारणमस्ति |
यत्र सुप्रसिद्ध: लकी-चित्रणालयमस्ति |
तर्हि वदन्तु बालका: अहं क: अस्मि ? || २५ ||

अहं गुजरातस्य प्रथमं राजधानीमासम् |
यत्र सर्वाधिकं जनसंख्यामस्ति |
यत्र सर्वोत्तमं रेलमथकं, चिकित्सालयं च स्त:
यत्र साबरमती-आश्रमं, नल-सरोवरं च स्त:
तर्हि वदन्तु बालका: अहं क: अस्मि ? || २६ ||

यत्र मोढेरानगरे सूर्यमन्दिरं, वडनगरे शर्मिष्ठाजशयं च स्त: |
यत्र अवलेहिकायै सुप्रसिद्ध ऊंझानगरमस्ति |
यत्र 'दूधसागर' दुग्धालयमस्ति |
यत्र बहुचरा मातु:, उमिया-मातु: च प्रख्यातं मन्दिरौ स्त: |
तर्हि वदन्तु बालका: अहं क: अस्मि ? || २७ ||

अहं मृतिकाया: क्रीडनकेभ्य: बहु प्रसिद्धमस्मि |
यत्र 'राणकी' इति नाम्ना प्रसिद्ध: 'कुप:' अस्ति |
यत्र सिद्धपुरे पितृश्राधस्य कृते बिन्दु इति नाम्ना सरोवरमस्ति |
यत्र सहस्त्रलिङ्ग:, रुद्रमहालयं च स्त: |
यत्र हेमचन्द्राचार्य-विश्वविद्यालयमस्ति |
तर्हि वदन्तु बालका: अहं क: अस्मि ? || २८ ||

मां जना: 'झालावड' कथयन्ते |
यत्र सर्वाधिक: गहनकुपा: सन्ति |
यत्र 'घुडखर' अभ्यारणमस्ति |
यत्र 'चोटीला' इति पर्वतोपरि 'चामुंडामाता' विराजते |
यत्र 'तरणेतर' इति नाम्ना स्थाने कलाप्रदर्शनं भवति |
तर्हि वदन्तु बालका: अहं क: अस्मि ? || २९ ||

अहं गुजराते सर्वाधिक: तालुका: धारयामि |
अहं इक्षुपत्त्रस्य,आलुकस्य चुत्पादने सर्वोत्तममस्ति |
यत्र 'बालाराम', 'जेसोर भल्लूक:' च अभ्यारणौ स्त: |
यत्र 'अंबाजी' विराजते |
तर्हि वदन्तु बालका: अहं क: अस्मि ? || ३० ||

अहं गुजरातस्य राजधानी अस्मि |
मां सर्वेजना: 'ग्रीन सीटी' कथ्यन्ते |
यत्र विधानसभा-भवनमस्मि |
यत्र 'अक्षरधाम' मन्दिरं तथा 'इन्द्रोडापार्क' स्त: |
तर्हि वदन्तु बालका: अहं क: अस्मि ? || ३१ ||

अहं सर्वाधिक: विस्तारं धारयामि |
यत्र 'रणोत्सव' भविष्यति |
यत्र सुरखाब-अभ्यारणमस्ति |
यत्र जेसल-तोरलस्य समाधि: अस्ति |
यत्र नारायण-सरोवरमस्ति |
तर्हि वदन्तु बालका: अहं क: अस्मि ? || ३२ ||

यत्र भारतस्य सर्वप्रथमं एनिमल-होस्टल अस्ति |यत्र ब्रह्माया: चतुर्भूज-प्रतिमा अस्ति |
मम क्रीडनकानि बहु विख्यात: सन्ति |
मम मुख्य-मथक: हिंमतनगरमस्ति |
यत्र इडरियो-दुर्ग: अस्ति |
तर्हि वदन्तु बालका: अहं क: अस्मि ?
|| ३३ ||

१)गीर सोमनाथजनपदम्
२)जूनागढजनपदम्
३)पोरबन्दरजनपदम्
४)जामनगरजनपदम्
५)देवभूमि-द्वारका जनपदम्
६)राजकोटजनपदम्
७)अमरेली जनपदम्
८)मोरबी जनपदम्
९)बोटादजनपदम्
१०)भावनगरजनपदम्
११)अरवल्ली जनपदम्
१२)तापी जनपदजनपदम्
१३)महीसागरजनपदम्
१४)छोटा उदेपुरजनपदम्
१५)वलसाडजनपदम् 
१६)नवसारी जनपदम्
१७)डांगजनपदम्
१८)सुरतजनपद
१९)नर्मदाजनपदम्
२०)भरूचजनपदम्
२१)वडोदराजनपदम्
२२)आणंदजनपदम्
२३)खेडा जनपदम्
२४)दाहोदजनपदम्
२५)पंचमहालजनपदम्
२६)अहमदाबाद जनपदम्
२७)महेसाणा जनपदम्
२८)पाटणजनपदम्
२९)सुरेन्द्रनगरजनपदम्
३०)बनासकांठा जनपदम्
३१)गांधीनगरपजनपदम्
३२)कच्छजनपदम्
३३)साबरकांठा जनपदम्

--- रचनाकार: - जगदीश: डाभी



www.jagdishdabhidanskritm.blogspot.com

एक टिप्पणी भेजें

0 टिप्पणियाँ