वर्तमानपरिप्रेक्ष्ये संस्कृतस्य वैशिष्ट्यम्
सर्वासु भाषासु संस्कृतभाषा प्राचीनतमा अस्ति।इयं भाषा देव वाणी गीर्वाणवाणी सुखाणीइत्यादिनामभि: सुविख्याता। इयं भाषा अतीव रमणीया मधुरा च अस्ति। सा न कठिना अपितु सरला सरसा एव।अद्यापि आंध्रप्रदेशे एकस्मिन ग्रामे जना: संस्कृतभाषामेव वार्तालापं कुर्वन्ति। भारतीयास्तु सर्वा भाषा संस्कृतेनानुगृहीता वर्तन्ते इति निश्चप्रचम्। संस्कृतभाषाया: महत्त्वं न केवलं भारतीयैरेव अपितु पाश्चात्त्यैरपि साह्लादमङ्गीक्रियते।विश्वस्य प्राचीनतमं साहित्यं वैदिकवाङ्मयं च संस्कृत भाषायामेव निबद्धं वर्तते। अस्मिन् विषये पाश्चात्य विद्वान मैकडानलऽपि कथ्यते- "समग्रसभ्यताया: मूलं संस्कृतवाङ्मय: एव निहितम्"।
भारतवर्षस्य सम्पूर्णमतीतकालिकं गौरवम्,संपूर्ण धर्म-साहित्यम्, इतिहास:, राजनीति:, अर्थशास्त्रम्, तन्त्रशास्त्रम्,मन्त्रशास्त्रम्,तर्क:,ज्योतिर्विद्या,सामुद्रिकं शास्त्रम्,कला:,वास्तुशास्त्रम् च संस्कृतभाषायामेव बहु सम्यक् रूपेण निवद्धानि सन्ति। संस्कृते ज्ञान विज्ञान कला संस्कृति धर्म दर्शन अर्थशास्त्र व्याकरणादि विषयेषु यथा विपुलं प्राचीनं वाङ्मयं उपलभ्यते न तावदन्यत्र कस्यामपि भाषायां प्राप्यते।
● संस्कृतभाषाया:स्थिति:
संस्कृतभाषाया: स्थितिं पश्याम:चेद् ज्ञायते यत् इयं भाषा यद्यपि अन्यभारतीयभाषाया: इव आधुनिकयुगं प्रविष्टवती, तथापि प्रयोगव्याप्ते: दृष्टया इदानीमपि हिंदी ओड़िआ बंगला तमिल तेलुगू आदितर भाषामुखेनैव आत्म प्रकाशनं कुर्वती अस्ति इति। अर्थात् इयमेव एका भाषा या भाषाशिक्षणप्रसङ्गे व्याकरणानुवादद्वारा इतरभाषामाध्यमेन शिक्ष्यते,किञ्च संस्कृतवाङ्मयं हिन्द्यादिभाषानुवादमुखेन पठ्यते,पाठ्यते,अवगम्यते च। अतः एव भारत वर्षे संस्कृतशिक्षणसंस्थासु संस्कृतमय: परिवेश:(यत्र अध्ययनम् अध्यापनं विचारविमर्श: शोधकार्याणि च संस्कृत मुखेन स्यु:)विरलमेव परिलक्ष्यते।संस्कृतभाषा स्वप्राणै:न श्वसिति, स्वनिद्रया न स्वपिति, न च स्वनेत्रोन्मीलितै: जागर्ति।सर्वविधाभिप्रायसंप्रेषणे स्वयं पूर्णतः समर्था अपि इयं सर्वदा अन्यभाषामाध्यमम् आश्रित्य वैकल्यं भजते।स्वतन्त्रताया: अनन्तरं सप्तत्यधिकवर्षावधौ अतीतेऽपि एतस्या: स्थितौ अन्यभारतीयभाषातुलनया उत्साहप्रदा प्रगति:नैव आगतास्ति।
● लोकव्यवहार:
लोके सरलतया शुद्धतया च संस्कृतभाषाया: व्यवहारे संस्कृतविषये जनानां 'संस्कृत कठिनम्' इति भ्रान्ति: अपगन्तुम् अर्हति।तदर्थं केचन परिमिता: शब्दा: परिमिता: क्रिया:(त्रिषु कालेषु) परिमितानि कानिचन् वाक्यानि च चित्वा तै:परस्परं भावविनिगमकरूपेण संस्कृतस्य सामान्य: व्यवहार: प्रारब्धव्य:।
● प्रसार:
अद्य यावत् संस्कृतस्य उपयोग: केवलं बी.ए., एम.ए., शास्त्री,आचार्य,डाॅक्टर,तीर्थ: इत्यादिनाम् उपाधीनां प्राप्ति:तन्मुखेन संस्कृताध्यापकरूपेण जीविकाप्राप्ति:इति अस्ति। किन्तु इदानीं काल: परिवृत्त:दृश्यते।सम्पूर्णे अपि देशे-विदेशेषु च एतस्या: भाषाया: अध्ययनविषये ,एतन्निहितानां वेदादिशास्त्राणां,रामायणादि काव्यानां, वेदान्तदर्शनानां,मनु-याज्ञवल्क्यादिस्मृतिनाम् इतरेषां च कौटिल्यादिग्रन्थानां, आयुर्वेदादीनां च विषये महती श्रद्धा जिज्ञासा अनुसन्धित्सा च विद्यते। अतः संस्कृतनिबन्धानां विविधानां शास्त्राणां लोकेन सह सम्बन्धस्थापनाय माध्यमभाषारूपेण सरलसंस्कृतस्य प्रयोग:करणीय:।
● पाठ्यपुस्तकनिर्माणम्
संस्कृतग्रन्थानां पाठनं संस्कृतेन करणीयं चेत्तदर्थं सरलसंस्कृतेन तेषां व्याख्यानात्मकानां पुस्तकानां निर्माणं करणीयम्।न्याय व्याकरण मीमांसादिग्रन्था: प्रौढ़संस्कृतभाषाया: कारणेनापि दुरूहा:सन्ति इत्यत: तत्र प्रवेष्टुकामानां कृते तेषां पाठ्यग्रन्थानां पुनः सरलसंस्कृतभाषाया लेखनं प्रकाशनं च अपेक्ष्यते। भूगोलेतिहासगणितविज्ञानादीनाम् आधुनिकानां पाठ्यविषयाणां पुस्यकानि अपि सरलसंस्कृतेन निर्मातव्यानि सन्ति,येन संस्कृतभाषाया: सर्वव्यापकत्वम् सर्वविषयाणां अवबोधनाय योग्यता सामर्थ्यत्वं च सिद्धिं भवेत्।
● संस्कृतस्य संबन्धि क्षेत्रम्-
*१.प्रशासनिकसेवा*
*२.सहायक प्रोफेसर*
*३.भाषाविद्*
*४.शिक्षक:*
*५.योगा अध्यापक:*
*६.पत्रकार:*
*७.धर्मगुरु(भारतीय सेना)*
*८.अनुवादक:*
*९.लेखक:*
*१०.लिपिक व सहायक:*
*११.पत्रवाचक:*
*१२.आयुर्वेदीय चिकित्सक:*
*१३.खगोलशास्त्री*
*१४.अंतरिक्ष सलाहकार:*
*१५.इतिहासकार:*
*१६.वास्तुविद, ज्योतिषाचार्य तथा योग्य आचार्य*
*१७.अनुसंधान सहायक: इत्यादि अनेकशः क्षेत्र: वर्तते।*
लेखक ---- प्रकाश तिवारी, बिहार
3 टिप्पणियाँ
अत्युत्तमम्
जवाब देंहटाएंश्रेष्ठतम प्रस्तुति
जवाब देंहटाएंअत्युत्तमम्
जवाब देंहटाएंधन्यवाद:/thank-you
Emoji