संस्कृतस्य महत्त्वम्
संस्कृतं भारतीयानां तपसः सञ्चितं धनम्। मृतं तन्न मृतं तन्न तदमृतं सदाक्षयम्।।
सम्प्रति सर्वस्मिन् अपि जगति संस्कृतस्य भारतीयसंस्कृतेश्चाप्रतिमं माहात्म्यं सर्वैरेव मुक्तकण्ठेन स्वीक्रियते। वेदवेदाङ्गधर्मशास्त्रदर्शनादिग्रन्थेषु न केवलं धार्मिकं चिन्तनम्, मानवहिताय वैज्ञानिकचिन्तनमपि प्रतिपदं प्राप्यते ।
गणित-ज्योतिष्-वास्तुविज्ञान-चिकित्साविज्ञान-पर्यावरणादिविज्ञानानां ज्ञानमस्माकं प्राचीनसंस्कृतग्रन्थेषु सन्निहितमेवास्ति। तस्यानन्तसंस्कृतज्ञानसागरस्य तरणाय संस्कृततरणिरेकैव पन्थाः। परन्तु केचन वदन्ति-“विज्ञानयुगे संस्कृतेन किं प्रयोजनम्?” इति। तत्रेदं वक्तव्यम् यद्विज्ञानयुगे संस्कृतं न, संस्कृतं हि विज्ञानम्। पश्यतु
गणितशास्त्रे दशमाङ्कपद्धतिः, शून्यप्रयोगः, बोधायनसूत्रम् (पाइथागोराससिद्धान्तः), पाइ(π) इत्यस्य मूल्यम् इत्यादिबहवः ज्ञाताज्ञातविषयाः संस्कृतभाषायामेव वर्णिताः।
ज्योतिश्शास्त्रे असंख्याः ग्रहाः सन्ति, तेषां स्वप्रकाशता नास्ति, पृथिव्यादिग्रहाः सूर्यं परितः परिभ्रमन्ति, अन्यसौरमण्डलान्यपि भवितुमर्हन्तीत्युक्तमेव। वराहमिहिरेण कुजग्रहविषये(मङ्गलग्रहविषये) उक्तम्-“चपलः सरक्तगौरो मज्जासारश्च माहेयः” इति। आधुनिक वैज्ञानिकाः अपि वदन्ति खलु मङ्गलग्रहे उग्रतुषारस्यावरणमस्त्यतः रक्तधवलवर्णौ दृश्येते। ‘कुजः'(भूमिपुत्रः) इति शब्दः एव तद्ग्रहे जीवसम्भाव्यतां प्रकाशयति। आधुनिकवैज्ञानिकाः सङ्गणकाद्युन्नतयन्त्रैः यत्पश्यन्ति वदन्ति च तद्विषये सहस्रवर्षपूर्वमृषयः कथं ग्रन्थानपि विरचयामासुः? इदन्तु सर्वैश्चिन्तनीयम्।
वास्तुविद्यायां सिन्धुसभ्यताचित्राणि, कर्णाटके बेलुरे भूमिस्पर्शरहितस्तम्भः, कोर्णाटकक्षेत्रे सूर्यमन्दिरम्, शृङ्गेरीस्तम्भः, अनन्तपुरीस्थसप्तस्वरप्रभावमण्डपाधारस्तम्भाः, अजन्ता-एल्लोरा-गुहा, देहलीस्थलोहस्तम्भः प्रभृतयः कस्य मनो न हरन्ति? किं नेदं विज्ञानम्? एतद्विज्ञानज्ञानार्थं ज्ञेयं हि संस्कृतम्।
चिकित्साविज्ञाने न केवलं मनुष्यरोगाणाम्, पशुरोगाणामपि वर्णाना प्रतिकाराश्च प्राप्यन्ते। पुनश्च आयुर्वेद-चरकसंहिता-सुश्रुतसंहिता-भावप्रकाशाष्टाङ्गहृदयादिग्रन्थानां महत्त्वं कः नाङ्गीकरोति? सुश्रुतमहर्षिरेवादिमशल्यचिकित्सकः यः आदौ त्वक्प्रत्यारोपणमकरोत्। अतः सुश्रुतः आधुनिकत्वक्प्रत्यारोपणस्य जनकः (The Father of plastic surgery) इति कथ्यते। यदेतरदेशस्थजनाः वनेचराः आसन् तदा मदीयाः सुसभ्याः पूर्वजाः वनगतलतागुल्मवृक्षादिभ्यः औषधनिर्माणं कुर्वन्ति स्म इत्युच्यते चेदत्युक्तिर्भवेद्वा?
कृषिविज्ञाने पराशरमहर्षेः कृषिपराशरनामकग्रन्थः 'विश्वकोषः’ इति कथ्यते।
ते पर्यावरणमपि देवरूपेणार्चन्ति स्म। श्रीकृष्णेनोक्तम् “अश्वत्थः सर्ववृक्षाणाम्” इति। अस्याश्वत्थवृक्षस्य न केवलं धार्मिकदृष्ट्या, वैज्ञानिकदृष्ट्यापि महत्त्वं विद्यते। एषः वृक्षः सर्वाधिकम् ‘आक्सीजन' इत्युपसर्जति।
विमानशास्त्रे भरद्वाज-नारायण-शौनकादिमहर्षीणां यन्त्रसर्वस्व-विमानचन्द्रिका-व्योमयानतन्त्रादिग्रन्थाः विमानशास्त्रसम्बद्धाः एव। विमानस्यावरोहणकालेऽपघातसम्भावनाधिकेति भरद्वाजमहर्षिः कथयति। अद्यापि सैव स्थितिः। सम्प्रति केरलराज्यस्य कोजिकोडान्तर्जातिकविमानवन्दरे एतादृशी दुर्घटनाभवत्।
पुनश्च वृक्षाणामपि प्राणाः सन्तीति आचार्यजगदीशचन्द्रवसुमहोदयात्प्राक् भगवान्मनुः प्राह। गुरुत्वविषये(Gravity) निउटनमहोदयाद्बहुपूर्वं कपिलाचार्यः सूत्ररूपेण उक्तवान्। अधुना वैज्ञानिकाः केवलं तेषां सूत्राणां प्रचारं प्रसारणञ्च कुर्वन्ति। एते प्रचारकाः, कारकास्तु ते मुनयः। एवं बहुसूत्ररत्नानि अधुनापि संस्कृतानन्तज्ञानसागरे सन्ति। अतः ‘नासा’(NASA) इति विश्वविख्यातविज्ञानगवेषणागारेऽपि संस्कृते गवेषणं चलति। ते उद्घोषितवन्तः यत्संस्कृतभाषा सङ्गणकस्य कृते सर्वोत्कृष्टा। यतोहि सुमहान् शब्दभाण्डारः, दृढव्याकरणं, सुस्पष्टता केवलमस्यामेव भाषायां वर्तते। एवं संस्कृतस्य महत्त्वं विज्ञाय न केवलं भारते, विदेशेष्वपि संस्कृतं योगादिरूपेण शिरसि एव वर्तते। अतः भारतसर्वकारस्य नवशिक्षानीत्यानुसारमाशु संस्कृतमनिवार्यं भविष्यति। एवं गच्छता कालेन संस्कृतं पुनः स्वश्लाघ्यं प्राप्स्यति। एतादृशस्य संस्कृतस्य सेवकत्वात् सानन्दं गर्वञ्चानुभवामि। जयतु संस्कृतम्।
लेखक --- ---सुमन्तपात्र, पश्चिमबंगाल
1 टिप्पणियाँ
उत्तमम्।
जवाब देंहटाएंधन्यवाद:/thank-you
Emoji