स्वागतम्

 आइए सरल विधि से संस्कृत में बात करना सीखें । यहाँ 👇🏻 क्लिक किजिए और प्रतिदिन क्रमशः एक एक पाठ का अभ्यास किजिए 👇🏻

Click here क्लिक क्लिक 



आधुनिकसन्दर्भे संस्कृतस्य महत्ता

               आधुनिकसन्दर्भे संस्कृतस्य महत्ता


"संस्कृतं नाम दैवी वागन्वाख्याता महर्षिभि:"

         सम्यक् कृतं संस्कृतमिति अथवा परिष्कृतं शुद्धं सम्यक् प्रकारेण च रचितं संस्कृतम्। संस्कृतभाषैवास्ति विश्वस्य प्राचीनतमा भाषा । सैव संस्कृतभाषा सर्वासामपि भाषाणां जननीl इयं भाषा सर्वासु भाषासु सरला सरसा मधुरा चास्ति । यथोक्तम्-

"भाषासु रम्या मधुरा दिव्या गीर्वाणभारती"

         पुरा काले तु संस्कृतं जनसाधारणभाषा आसीत् । परन्तु न केवलं पुराकाले आधुनिककालेsपि विविधक्षेत्रेषु संस्कृतस्य महत्ता वरीवर्ति । यथा- 


१-आधुनिकपरिप्रेक्ष्ये संस्कृतभाषाया: राष्ट्रियमहत्त्वम् - वर्तमानसमये  भारतस्य एकतायाः अखण्डतायाश्च रक्षणदृष्ट्या अस्या: भाषाया: अत्यधिकं महत्त्वं वर्तते । यतो हि संस्कृतभाषा समस्तराष्ट्रं एकतासूत्रे बध्नातुं प्रेरयति । यथोक्तम् -

"उत्तरं यत्समुद्रस्य, हिमाद्रेश्चैव दक्षिणम् ।

वर्षं तद्भारतं नाम, भारती यत्र संतति:"।।

     एवं प्रकारेण संस्कृतभाषा राष्ट्रस्य ऐक्यं साधयति ।स्वामी विवेकानन्देनापि संस्कृतस्य राष्ट्रियमहत्ता विषये उक्तम् -

"संस्कृतपदानां विशिष्टोच्चारणेन एव अस्माकं राष्ट्रं सामर्थयुतं गौरवयुतं च भवति"।


२- वर्तमानपरिप्रेक्ष्ये संस्कृतभाषाया: अन्ताराष्ट्रियमहत्त्वम्-        अन्ताराष्ट्रियक्षेत्रे विश्वबन्धुत्वभावना,सौहार्दभावना यथा संस्कृते विद्यते तथा न कुत्रापि..यथा - 

"उदारचरितानां तु वसुधैव कुटुम्बकम्"

    अन्यच्च 

"संगच्छध्वं संवदध्वं सं वो मनांसि जानताम्"

   तथा च

"केवलाघो भवति केवलादी"

          एवम्प्रकारेण बन्धुत्वस्य त्यागस्य परोपकारस्य च शिक्षा संस्कृतभाषया मिलति ।


३- वर्तमानसन्दर्भे संस्कृतभाषाया: भाषाशास्त्रीय महत्त्वम्- संस्कृतभाषाया: शब्दावल्यां यद् व्यापकत्वं यद्गम्भीरत्वं यद्सूक्ष्मत्वञ्च वर्तते न तद् कस्यामपि अन्याभाषायाम् । अस्यां भाषायामेकस्य शब्दस्यानेके समानार्था: जायन्ते, शब्दरचनाशक्तिरपि अस्या: अद्वितीया वर्तते । अस्या: भाषाया: शब्दकोशो विशाल:  सुसम्पन्नश्चास्ति।अस्माकं राष्ट्रियभाषाया: शब्दकोश: नवति प्रतिशतं तयैव परिपूरिता । अत एव भाषाविज्ञानपण्डितानाम् मतमिदं यत् भाषाविज्ञानस्य अध्ययनाय संस्कृताध्ययनम् अनिवार्यम् ।


४- साम्प्रतिके सन्दर्भे संस्कृतभाषाया: वैज्ञानिकमहत्त्वम्- चिकित्सा,कला,अभियन्त्रादि समस्तविषयकज्ञानविज्ञानम् अस्यां निबद्धम् । सङ्गणकस्य कृते अस्या: विशालशब्दकोश: महतोपयोगी इति सर्वै: स्वीकृतम्। अन्यच्च अन्तरिक्षसन्देशप्रेषणसमये अन्यासु भाषासु शब्दानां क्रमभङ्गे सति अर्थभिन्नं भवति,परन्तु संस्कृतभाषायां शब्दानां क्रमभङ्गे अपि अर्थभिन्नं न भवति ।


५ वर्तमानपरिप्रेक्ष्ये संस्कृतभाषाया: सांस्कृतिकमहत्त्वम् - संस्कृतभाषया एव अस्माकं भारतीया संस्कृति: जीविता वर्तते, यतोहि संस्कृति: संस्कृताश्रिता ।संस्कृतं संस्कृतिश्च द्वयोरेव अस्माकं भारतीय प्रतिष्ठाया: आधारौ वर्तेते- 

 "भारतस्य प्रतिष्ठे द्वे संस्कृतं संस्कृतिस्तथा"। 


६- संस्कृतभाषाया: आध्यात्मिकमहत्त्वम्- साम्प्रतिके युगे सर्वत्र सर्वस्मिन् क्षेत्रे मानवेषु अशान्ति: दरीदृश्यते । जनेषु सर्वत्र मानसिकशान्त्या: अभाव: दृश्यते परिणामत: जना: लघ्वी लघ्वी प्रतिकूलपरिस्थितिषु किं कर्तव्यविमूढभूत्वा आत्महननं कुर्वन्ति । एतासां सर्वासां समस्यानां मूलकारणं वर्तते आध्यात्मिकज्ञानस्याभाव: ।  एतासां समस्यानां समाधानं संस्कृतपठनेन सम्भवति,यतो हि संस्कृतैव पुरुषार्थचतुष्टय, पूजावन्दनादि तथा च संस्कारादि विषयकज्ञानं वर्तते ।

           अस्यां भाषायां सहिष्णुताभावना-बन्धुत्वभावना- अहिंसाभावना - आस्तिक्यभावना- त्यागभावना- विश्वमंगलभावनाश्च वर्तन्ते । अत: आत्मन: विश्वस्य चोन्नतये अस्माभि: संस्कृतस्याध्ययनम् अध्यापनं चावश्यमेव कर्तव्यम् ।

"संस्कृते संस्कृतिर्ज्ञेया, संस्कृते सकला: कला: ।

संस्कते सकलं ज्ञानं,संस्कृते किन्न विद्यते"।। इति

लेखिका --- सुनेहा सिंह:, उत्तरप्रदेश।



एक टिप्पणी भेजें

5 टिप्पणियाँ

धन्यवाद:/thank-you

Emoji
(y)
:)
:(
hihi
:-)
:D
=D
:-d
;(
;-(
@-)
:P
:o
:>)
(o)
:p
(p)
:-s
(m)
8-)
:-t
:-b
b-(
:-#
=p~
x-)
(k)