स्वागतम्

 आइए सरल विधि से संस्कृत में बात करना सीखें । यहाँ 👇🏻 क्लिक किजिए और प्रतिदिन क्रमशः एक एक पाठ का अभ्यास किजिए 👇🏻

Click here क्लिक क्लिक 



पी. सी. सरकार

 पी. सी. सरकार


           ऐन्द्रजाल-कलाया: क्षेत्रे 'जादुसम्राट' वा 'जादु के महाराजा' इति नाम्ना विख्यात: अद्भुतं ऐन्द्रजालस्य क्रीडां कृतवतः एन्द्रजालिक: पी. सी. सरकारस्य जन्म एकस्मिन् लघुसामान्य परिवारे २३,फेब्रुआरी १९१३ तमे दिनाङ्के टांगाइलजनपदस्य आशोकनगरे (अधुना बाङ्ग्लादेशे) अभवत् | स: बाल्याकालातदेव ऐन्द्रजालं प्रति आकर्षितः अभवत् | प्रारम्भे ऐन्द्रजालस्य शिक्षा ऐन्द्रजालिक: गणपति चक्रवर्तीमहोदयात् लब्धवान् | तदन्तरं विद्यालये एव ऐन्द्रजालस्य क्रीडा: प्रारम्भं कृता | तथापि तस्य अभ्यासे कोऽपि विघ्नं न अगच्छत् | 

           स: १९३३ तमे गणितविषये स्नातकोत्तरं उत्तीर्य तत् पश्चात् स: ऐन्द्रजालकलां स्वीकृतवान् | पश्चात् बसंतीदेव्या सह विवाह: जातः |स: ऐन्द्रजालस्य क्रीडा समये प्रेक्षकानां समक्षे रजवाडी-वस्त्राणि तथा मस्तके आकर्षक: शिरस्कं धारितवान् | तस्य ऐन्द्रजालस्य प्रसिद्ध क्रीडायां 'एक्स-रे आइ','वॉटर ऑफ इन्डिया' इत्यादय: सन्ति | स: १९३४ तमे प्रथमवारं ऐन्द्रजालस्य क्रीडाभ्य: विदेशं गतवान् | तत् पश्चात: स: ऐन्द्रजालस्य क्रीडा: कर्तुम् ७०त: अधिक: देशेषु भ्रमणं कृतवान् | तदन्तरं तस्य प्रयोगा: देशे विदेशे च दूरदर्शनं उपरि प्रसारिता: जाता: | सः देशे तथा विदशे अनेकाः पुरस्कारा: पारितोषिका: च प्राप्तवान् | 

          यु. एस. द्वारा उत्तम क्रीडाभ्य: 'फिनिक्स एवॉर्ड','जर्मन गोल्डबार','गोल्डन लॉरेल गार्लेन्ड' तथा 'डच ट्रिक्स प्राइझ' इव पुरस्कारा: लब्धवान् | १९६४ तमे भारतसर्वकार द्वारा 'पद्मश्री' इति नाम्ना पारितोषिकेन सम्मानं लब्ध: | फेब्रुआरी २०१० तमे भारतसर्वकारस्य पत्रविभाग द्वारा तस्य सचित्र एकरुप्यकस्य पत्र-चीटिका अपि प्रकाशिता ।स: फ्रान्स,इन्ग्लेन्ड,ज­र्मन, बेल्जियम तथा जापानदेशस्य सोसायटी ऑव् मेजिशियन्सस्य सदस्यः आसीत् | स: इन्टरनेशनल रोटरी क्लबस्य तथा लंडनस्य रॉयल एशियाटिक सोसायटी इत्यस्याः अपि सदस्यः आसीत् | 

          युरोपदेशस्य बहुभिः प्रसिद्धलेखकै: अस्य विषये पुस्तकानि लिखिता: | तेषां प्रसिद्धं पुस्तकं 'सरकार-महाराजा ऑव् मेजिक' अस्ति | तस्य ऐन्द्रजालकलायाम् उपरि एकं चलचित्रम् अपि अस्ति | ऑल इन्डिया मेजिक कॉन्फरन्सस्य उपक्रमे १९६३ तमे रजतजयंति प्रसङ्गान्तर्गतं तस्य जीवनं विषयकमुपरिचित्रपुस्तकं प्रकाशितवान् | हिझ मास्टर्स वॉइस इति नाम्ना संस्था द्वारा तस्य उपरि 'लॉन्ग प्लेइन्ग रेकर्ड' निर्माणं कृतवान् |


 - जगदीश: डाभी

   केशोद:, जूनागढजनपदम्

   गुजरात:



एक टिप्पणी भेजें

0 टिप्पणियाँ