संस्कृत वाक्य अभ्यास
Sanskrit sentence study
संस्कृत वाक्य अभ्यासः
~~~~~~~~~~~~~~
सः भारतीयः युवकः अस्ति ।
= वह भारतीय युवक है ।
तम् भारतीयं युवकं सर्वे जानन्ति ।
= उस भारतीय युवक को सब जानते हैं ।
तेन भारतीयेन युवकेन श्रेष्ठं कार्यम् क्रियते ।
= उस भारतीय युवक के द्वारा अच्छा काम किया जा रहा है ।
तस्मै भारतीयाय युवकाय सर्वदा स्वस्ति: कामये ।
= उस भारतीय युवक के लिए हमेशा स्वस्ति की कामना ।
तस्मात् भारतीयात् युवकात् सर्वे बिभ्यति ।
= उस भारतीय युवक से सब डरते हैं ।
तस्य भारतीयस्य युवकस्य नाम किम् अस्ति ?
= उस भारतीय युवक का नाम क्या है ?
तस्य भारतीयस्य युवकस्य नाम नरेन्द्र मोदी अस्ति ।
= उस भारतीय युवक का नाम नरेन्द्र मोदी है ।
तस्मिन् भारतीये युवके सर्वे विश्वसन्ति ।
= उस भारतीय युवक पर सबको विश्वास है ।
प्रविशति = प्रवेश करता है / करती है
सः प्रविशति = वह प्रवेश करता है ।
सा प्रविशति = वह प्रवेश करता है ।
एषः प्रविशति = यह प्रवेश करता है ।
एषा प्रविशति = यह प्रवेश करता है
कः प्रविशति ? = कौन प्रवेश करता है ?
छात्रः प्रविशति = छात्र प्रवेश करता है ।
छात्रः कुत्र प्रविशति ?
= छात्र कहाँ प्रवेश करता है ?
छात्रः विद्यालयं प्रविशति
= छात्र का ज्ञान बढ़ता है ।
का प्रविशति ? = कौन प्रवेश करती है ?
लक्ष्मी: प्रविशति = लक्ष्मी प्रवेश करती है
लक्ष्मी: कुत्र प्रविशति ?
= लक्ष्मी कहाँ प्रवेश करती है ?
लक्ष्मी: वित्तकोषं प्रविशति ।
= लक्ष्मी बैंक में प्रवेश करती है ।
अहं प्रविशामि = मैं प्रवेश करता हूँ / करती हूँ ।
सा अवकरं क्षिपति।
= वह कूड़ा फेंकती है
सा मार्गे एव अवकरं क्षिपति ।
= वह रास्ते में ही कूड़ा फेंकती है
एका छात्रा ताम् निषेधयति ।
= एक छात्रा उसको मना करती है ।
हे भगिनि ! मार्गे अवकरं मा क्षिपतु ।
= हे बहन ! रास्ते में कूड़ा मत फेंकिये।
अवकरपात्रे एव अवकरं क्षिपतु ।
= कूड़ेदान में ही कूड़ा फेंकिये ।
सा भगिनी तस्याः वार्तां मन्यते ।
= वह बहन उसकी बात मानती है
अद्य एकस्य बालकस्य नामाभिधानं करणीयम् आसीत्।
= आज एक बालक का नामकरण कराना था।
नवजातस्य बालकस्य शरीरे मातामही तैलमर्दनं कृतवती।
= नवजात बालक के शरीर में दादी ने तेलमालिश की
नवजातं बालकं मातामही स्नानं कारितवती।
= नवजात बालक को दादी ने नहलाया।
अनन्तरं सा बालकं वस्त्रेण बद्धवती ।
= बाद में उसने बच्चे को वस्त्र से बाँध दिया।
नेत्रयोः कज्जलं स्थापितवती।
आँखों में काजल लगाया।
अनन्तरं सर्वे यज्ञार्थम् उपाविशन्।
= बाद में सभी यज्ञ के लिये बैठे।
बालकस्य नामाभिधानम् "आर्ष:" कृतम्।
= बालक का नाम "आर्ष" रखा गया।
अनन्तरं मातामही धेनवे तृणं दत्तवती।
= बाद में दादी जी ने गाय को घास दी।
अतिथयः भोजनं कृतवन्तः।
= अतिथियों ने भोजन किया।
सर्षपस्य शाकम् आसीत्।
= सरसों का साग था।
मकोयस्य रोटिका आसीत्।
= मक्के की रोटी थी।
तेन सह गुडम् अपि आसीत्।
= उसके साथ गुड़ भी था।
ततः खादित्वा अधुनैव गृहम् आगतवान्।
= वहाँ से खाकर अभी ही घर आया हूँ।
ओ३म्
संस्कृताभ्यासः
*भूतकाल*
अहं सिद्धः / सिद्धा अभवम् ।
= मैं तैयार हो गया / हो गई
अहं चकितः / चकिता अभवम्
= मैं चकित हो गया / हो गई ।
अहं स्वस्थः / स्वस्था अभवम् ।
= मैं स्वस्थ हो गया / हो गई।
अहं उत्तीर्णः / उत्तीर्णा अभवम् ।
= मैं उत्तीर्ण हो गया / हो गई ।
सुमितस्य कार्यम् अभवत्।
= सुमित का काम हो गया।
स्नेहलता नृत्यांगना अभवत्।
= स्नेहलता नृत्यांगना बन गई।
श्रीकान्तः स्वीये कार्ये सफलः अभवत्।
= श्रीकांत अपने काम में सफल हो गया।
वर्णिका गृहकार्ये निपुणा अभवत्।
= वर्णिका घर के काम में निपुण हो गई।
एका शिक्षिका अद्य निवृत्ता अभवत्।
= एक शिक्षिका आज निवृत्त हो गई।
छात्रः उत्तरं श्रुत्वा शान्तः अभवत्।
= छात्र उत्तर सुनकर शान्त हो गया।
*प्रारम्भे एकवचने एव अभ्यासं कुर्वन्तु।*
= *प्रारम्भ में एकवचन में ही अभ्यास करिये।*
*तथैव सरलवाक्यानाम् अभ्यासं कुर्वन्तु।*
= *इसी प्रकार सरल वाक्यों का अभ्यास करें।*
।। जयतु संस्कृतम् ।। जयतु भारतम् ।।
संस्कृताभ्यासः
*वर्तमानकाल*
अहं पश्यामि = मैं देखता हूँ / देखती हूँ।
अहं किं पश्यामि ?
= मैं क्या देख रहा / रही हूँ ?
अहं मम शिक्षकं पश्यामि।
= मैं मेरे शिक्षक को देख रहा हूँ / रही हूँ।
इदानीम् अहं चलचित्रं पश्यामि।
= अभी मैं चलचित्र देख रहा हूँ / रही हूँ।
अहं कुत्र पश्यामि ?
= मैं कहाँ देख रहा / रही हूँ?
अहं तं / तां प्रति पश्यामि।
= मैं उसकी तरफ देख रहा हूँ / देख रही हूँ।
अहं सूर्यं प्रति पश्यामि।
= मैं सूर्य की ओर देख रहा / रही हूँ।
सः पश्यति।
= वह देखता है / देख रहा है ।
सा पश्यति।
= वह देखती है / देख रही है ।
सः / सा किं पश्यति ?
= वह क्या देख रहा / देख रही है ?
सः / सा मातरं पश्यति।
= वह माँ को देख रहा है / देख रही है ।
हेमाङ्गः वायुयानं पश्यति।।
= हेमांग वायुयान देख रहा है।
नेहा पुष्पाणि पश्यति।
= नेहा फूलों को देख रही है।
सः / सा कुत्र पश्यति ?
= वह कहाँ देखता / देखती है ?
सः / सा मां प्रति पश्यति।
= वह मेरी तरफ देखता / देखती है।
सैनिकः राष्ट्रध्वजं प्रति पश्यति।
= सैनिक राष्ट्रध्वज की ओर देखता है।
*प्रारम्भे एकवचने एव अभ्यासं कुर्वन्तु।*
= *प्रारम्भ में एकवचन में ही अभ्यास करिये।*
*तथैव सरलवाक्यानाम् अभ्यासं कुर्वन्तु।*
= *इसी प्रकार सरल वाक्यों का अभ्यास करें।*
।। जयतु संस्कृतम् ।। जयतु भारतम् ।।
संस्कृताभ्यासः
*आज्ञार्थ*
अहं भवानि वा ? = मैं क्रुद्ध होऊँ क्या ?
अहं सिद्धः / सिद्धा। भवानि ?
= मैं तैयार होऊँ ?
भो हरिजित ! सिद्धः भवतु।
= हरिजित जी , तैयार हो जाइये
दीपिके ! राष्ट्रद्रोहिणी मा भवतु ।
= दीपिका जी , राष्ट्रद्रोहिणी मत बनिये।
दुर्जनः न सज्जनः भवतु।
= दुर्जन नहीं सज्जन बनिये।
कृपया नियमितः भवतु।
= कृपया नियमित बनिये।
निश्चिन्तः भवतु।
= निश्चिन्त हो जाइये।
मम मित्रं भवतु।
= मेरा मित्र बनिये।
*प्रारम्भे एकवचने एव अभ्यासं कुर्वन्तु।*
= *प्रारम्भ में एकवचन में ही अभ्यास करिये।*
*तथैव सरलवाक्यानाम् अभ्यासं कुर्वन्तु।*
= *इसी प्रकार सरल वाक्यों का अभ्यास करें।*
।। जयतु संस्कृतम् ।। जयतु भारतम् ।।
उषा - ओम् नादं कुरु ।
= ओम् नाद करो ।
- दीर्घं श्वासं स्वीकुरु।
= लंबा श्वांस लो ।
ओ ....३....म्
शिखा - ओ म्
उषा - शनैः शनैः ओ..३..म् वद ।
= धीरे धीरे ओ...३...म् बोलो
- एकसाकं मास्तु।
= एकसाथ नहीं।
- दीर्घालापं कुरु।
= लम्बा आलाप करो
ओ ....३....म्
शिखा - ओ ....३....म्
उषा - उत्तमम् ।
- वारत्रयम् ओ ....३....म् वद।
= तीन बार ओ ....३....म् बोलो ।
शिखा - दीर्घं श्वासं स्वीकरोमि ।
= लम्बा श्वांस लेती हूँ।
- ओ ....३....म् वदामि।
= ओ ....३....म् बोलती हूँ।
उषा - शोभनम् ।
संस्कृताभ्यासः
*भविष्यकाल*
अहं द्रक्ष्यामि।
= मैं देखूँगा / देखूँगी।
अहं भारतस्य उन्नतिं द्रक्ष्यामि।
= मैं भारत की उन्नति देखूँगा / देखूँगी।
अहं छपाक चलचित्रं न द्रक्ष्यामि
= मैं छपाक फ़िल्म नहीं देखूँगा /देखूँगी।
एकदा अहं हिमालयं द्रक्ष्यामि।
= एक बार मैं हिमालय देखूँगा / देखूँगी।
हिमालये सः यतिं द्रक्ष्यति।
= हिमालय में वह यति को देखेगा।
पुरीनगरे सा मन्दिरं द्रक्ष्यति।
= पुरी में वह मन्दिर देखेगी।
वर्षासमये किशोरः मयूरस्य नृत्यं द्रक्ष्यति।
= वर्षा के समय किशोर मोर का नृत्य देखेगा।
नेत्रचिकित्सायाः अनन्तरं सः सर्वं द्रक्ष्यति।
= आँखों की चिकित्सा के बाद वह सब कुछ देखेगा।
आगामिनी वर्षे सः मानसरोवरं द्रक्ष्यति।
= आगामी वर्ष में वह मानसरोवर देखेगा।
श्वः सा लोकनृत्यं द्रक्ष्यति।
= कल वह लोकनृत्य देखेगी।
*प्रारम्भे एकवचने एव अभ्यासं कुर्वन्तु।*
= *प्रारम्भ में एकवचन में ही अभ्यास करिये।*
*तथैव सरलवाक्यानाम् अभ्यासं कुर्वन्तु।*
= *इसी प्रकार सरल वाक्यों का अभ्यास करें।*
।। जयतु संस्कृतम् ।। जयतु भारतम् ।।
संस्कृत अभ्यास
१) pencil = अङ्कनी,
२) eraser = आघर्षनी (f), मार्जक (m),
३) ink = मषी,
४) wra pper = प्रच्छाद / आवरण,
५) seal = मुद्रा,
६) file = सञ्चिका,
७) sketch pen = वर्णलेखनी,
८) nib = लेखनीमुख,
९) ball point pen =गोलाग्रलेखनी,
१०) clip = सन्दंशिका (f), स्वज (m),
११) pouch = भस्त्रा,
१२) slate = लेखफलक,
१३) chalk piece = सुधाखण्ड,
१४) stapler = योजिनी / योजिका,
१५) pin = सूची,
१६) punch = रन्ध्रिका,
१७) table drawer = ...... ,
१८) safety pin = वस्त्रसूची,
१९) sharpner = ....... ,
२०) blade = धारा / क्षुरपत्र,
२१) document = पत्रिका/प्रलेख,
२२) sticker = संश्लेषक,
२३) label = लक्ष,
२४) note book = टिप्पणीपुस्तिका,
२५) diary = दैनन्दिनी,
२६) photo copy = प्रतिकृति/
संस्कृत वाक्य अभ्यासः
~~~~~~~~~~~~
मर्यादा-पुरुषोत्तमः कः आसीत् ?
= मर्यादा पुरुषोत्तम कौन थे ?
श्रीरामः मर्यादा-पुरुषोत्तमः आसीत् ।
= श्रीराम मर्यादा पुरुषोत्तम थे ।
श्रीरामः दण्डकारण्ये अनेकान् राक्षसान् अमारयत् ।
= श्रीराम ने दंडकारण्य में अनेक राक्षसों को मारा ।
सः पितुः आज्ञाम् अपालयत् ।
= उन्होंने पिता की आज्ञा का पालन किया ।
श्रीरामः गुरूणाम् आदरं करोति स्म ।
= श्रीराम गुरुओं का आदर करते थे ।
महर्षि : वसिष्ठ: श्रीरामस्य गुरु: आसीत्।
महर्षि वसिष्ठ श्री राम के गुरु थे ।
तस्य सुशासने प्रजा प्रसन्ना आसीत् ।
= उनके सुशासन में प्रजा प्रसन्न थी ।
सः रावणेन सह युद्धम् अकरोत् ।
= उन्होंने रावण के साथ युद्ध किया ।
रावणम् अमारयत् ।
= रावण को मारा ।
अद्यापि सर्वे जना: श्रीरामं स्मरन्ति, रावणं न ।
= आज भी सब मनुष्य श्रीराम को याद करते हैं , रावण को नहीं ।
श्रीरामम् अनुसरन्तु , रावणं न
= श्रीराम का अनुसरण करें , रावण का नहीं ।
-- अखिलेश आचार्य
0 टिप्पणियाँ
धन्यवाद:/thank-you
Emoji