स्वागतम्

 आइए सरल विधि से संस्कृत में बात करना सीखें । यहाँ 👇🏻 क्लिक किजिए और प्रतिदिन क्रमशः एक एक पाठ का अभ्यास किजिए 👇🏻

Click here क्लिक क्लिक 



72) संस्कृत वाक्य अभ्यास

संस्कृत वाक्य अभ्यास
Sanskrit Sentence Study


न ..न.. न... द्वारं मा पिधायतु। 
= नहीं दरवाजा बंद मत करो 

मूषकं बहिः गच्छतु नाम।
= चूहे को बाहर जाने दो। 

पश्यतु तत्र अस्ति 
= देखो वहाँ है ।

कुत्र ??? 

कपाटिकायाः अधः ... 
= अलमारी के नीचे ... 

ओह ... ततः तु अग्रे गतः 
= ओह .... वहाँ से तो आगे चला गया 

पर्यंकस्य अधः अस्ति।
= पलंग के नीचे है। 

दण्डेन नुदतु 
= लाठी से धकेलो 

ओह ... सः तु पाकशालां गतः 
= ओह ... वह तो रसोई में गया 

पाकशालायाः द्वारम् उद्घाटितम् अस्ति 
= रसोई का दरवाजा खुला है।

पुनः एकवारं नुदतु।
= फिर से एक बार धकेलो 

उत्तमं ... मूषकः बहिः गतः ।
= बढ़िया जी .... चूहा बाहर गया ।


संस्कृत वाक्य अभ्यासः  
~~~~~~~~~~~~~~ 

मन्दं मा वद ।
= धीमे मत बोलो ।

सः उच्चै: श्रृणोति ।
= वह ऊँचा सुनता है ।

मन्दं वदिष्यसि चेत् सः न श्रोष्यति ।
= धीमे बोलोगे तो वह नहीं सुनेगा । 

तस्य समीपं गत्वा एव वद ।
= उसके पास जाकर बोलो । 

एकस्यां दुर्घटनायां तस्य श्रवणशक्तिः क्षीणा जाता ।
= एक दुर्घटना में उसकी सुनने की शक्ति कम हो गई ।

सः सर्वम् अवगच्छति ।
= वह सब कुछ समझता है ।

कार्यम् अपि बहु शीघ्रं करोति ।
= काम भी बहुत जल्दी करता है ।

बहु प्रेम्णा वार्तालापं करोति ।
= बहुत प्रेम से बातचीत करता है ।

संस्कृतगीतम् अपि गायति ।
= संस्कृत गीत भी गाता है ।

केवलं तस्य कर्णयोः दोषः अस्ति ।
= केवल उसके दोनों कानों में दोष है ।

मार्गे अस्मि। 
= रास्ते में हूँ। 

यानं चालयामि। 
= गाड़ी चला रहा हूँ। 

सः अपि यानं चालयति। 
= वह भी गाड़ी चला रहा है। 

सा अपि यानं चालयति ।
= वह भी गाड़ी चला रही है। 

मार्गे निर्माणकार्यं चलति। 
= रास्ते में निर्माणकार्य चल रहा है। 

सर्वे यानचालने कष्टम् अनुभवन्ति।
= सभी वाहन चलाने में कष्ट अनुभव कर रहे हैं 

इतः अपि यानानि गच्छन्ति ।
= यहाँ से भी वाहन जा रहे हैं । 

ततः अपि यानानि आगच्छन्ति ।
= वहाँ से भी वाहन आ रहे हैं ।  

मार्गे अनेके अवरोधाः सन्ति। 
= रास्ते में अनेक अवरोध हैं 

तथापि गन्तव्यं तु अस्ति।
= फिर भी जाना तो है ।

कथञ्चिद्पि मार्गः पारणीयः ।
= कैसे भी करके रास्ता पार करना है 

कोsपि न विरमति।
= कोई नहीं रुक रहा है।

संस्कृत वाक्य अभ्यासः  
~~~~~~~~~~~~~~ 

* स्वातिः विंशतिः आमलकानि खादितवती ।
   = स्वाति ने बीस आँवले खा लिये ।

** विंशतिः आमलकानि !!! 
   = बीस आँवले !!! 

* आम् , विंशतिः आमलकानि ।
   = हाँ , बीस आँवले । 

** किमर्थं विंशतिः आमलकानि खादितवती सा ? 
   = उसने बीस आँवले क्यों खाए ? 

*  तस्याः सख्याः पणः आसीत् 
    = उसकी सहेली की शर्त थी । 

    विंशतिः आमलकानि खाद ।
    बीस आँवले खाओ ।

    अहम् एकसहस्र रूप्यकाणि दास्यामि ।
     = मैं एक हजार रूपया दूँगी । 

     स्वातिः तु प्रतिदिनम् आमलकं खादति एव ।
     = स्वाति तो हर रोज आँवला खाती ही है ।

     * अतः सा प्रेम्णा आमलकानि खादितवती ।
     = इसलिये वह प्यार से आँवले खा गई ।

उत्पीठिका = टेबल 

स्वागतकक्षे उत्पीठिका अस्ति। 
= स्वागतकक्ष में टेबल है। 

उत्पीठिकायां पुष्पाधानी अस्ति। 
= टेबल पर फूलदान है 

पुष्पाधान्यां पुष्पाणि सन्ति। 
= फूलदान में फूल हैं ।

विविधानि पुष्पाणि सन्ति।  
= विविध फूल हैं । 

एका बालिका सर्वेषां स्वागतं करोति।
= एक बच्ची सबका स्वागत कर रही है 

तस्याः हस्ते एका स्थालिका अस्ति।
= उसके हाथ में एक थाली है। 

स्थालिकायां पुष्पाणि , अक्षतं , तिलकं च अस्ति। 
= थाली में फूल , अक्षत और तिलक हैं । 

सा बालिका सर्वान् तिलकं करोति। 
= वह बच्ची सबको तिलक करती है।

सर्वेषाम् उपरि पुष्पवर्षां करोति 
= वह सबके ऊपर पुष्पवर्षा करती है। 

सा बालिका स्वस्तिवाचनं गायति 
= वह बालिका स्वस्तिवाचन गाती है। 

ओं स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः स्वस्तिः नस्तार्क्ष्यो अरिष्टनेमि: स्वस्ति नो बृहस्पतिः ददातु।
संदिग्धायाम् अवस्थायां सः प्राप्तः ।
= संदिग्ध अवस्था में वह मिला। 

रक्षकः तम् अवरोधितवान् ( अवारोधयत् ) 
= रक्षक ने उसे रोका। 

रक्षकः - तिष्ठ ....  यानपेटिकाम् उद्घाटय 
          = रुको .... बैग खोलो। 

          - किम् अस्ति अन्तः ? 
          = अन्दर क्या है ? 

* अहं न जानामि।
   = मैं नहीं जानता हूँ। 

रक्षकः - सशङ्कितायाम् अवस्थायाम् अत्र भ्रमति। 
        = सशंकित अवस्था में यहाँ घूम रहे हो। 

       - गृहं किमर्थं न गच्छसि त्वम् ? 
       = तुम घर क्यों नहीं जाते हो ? 

       - कुत्र निवससि त्वम् ? 
       = तुम कहाँ रहते हो ? 

* रक्षक महोदय ! अहं छात्रः अस्मि। 
   = रक्षक जी ! मैं तो विद्यार्थी हूँ। 

* एकः जनः मम हस्ते यानपेटिकां दत्वा अवदत् " अह आगच्छामि" 
 = एक व्यक्ति ने मेरे हाथ में बैग देकर कहा " मैं आ रहा हूँ" 

* अधुना पर्यन्तं सः न आगतवान्। 
  = वो अभी तक नहीं आया। 

* अहं किं करवाणि ? 
  = मैं क्या करूँ ? 

रक्षकः - तव परिचयपत्रं दर्शय । 
         = तुम्हारा परिचयपत्र दिखाओ। 

* आं पश्यतु ,  अहम् आदर्श पाठशालायाः छात्रः अस्मि। 
 = हाँ देखिये , मैं आदर्श पाठशाला का छात्र हूँ। 

रक्षकः - त्वं तु सत्यमेव छात्रः असि।
         = तुम तो सच में छात्र हो। 

         - श्रृणु , कोsपि अपरिचितः जनः किमपि ददाति तद् न स्वीकरणीयम् । 
        = सुनो , कोई भी अपरिचित व्यक्ति कुछ भी देता है वो नहीं लेना चाहिये । 

        - सः किमपि ददाति तद् न खादनीयम्। 
       = वह कुछ भी दे वो नहीं खाना चाहिये। 

      - अवगतम् ?
      = समझ में आ गया ? 

* आम् अवगतम् । 
  = हाँ समझ में आ गया।


ह्यः तस्य युतके चायं पतितम् ।
= कल उसकी शर्ट पर चाय गिर गई। 

सः शीघ्रमेव जलेन युतकं स्वच्छं करोति। 
= वह जल्दी से शर्ट साफ करता है। 

तथापि एकः बिन्दुः युतके अवशिष्टः। 
= फिर भी एक बूँद शर्ट पर रह गई। 

चायबिन्दुः युतके स्थायी न भवेत् इति विचिन्तय सः ऊष्णेन जलेन घर्षयति। 
= चाय की बूँद शर्ट पर स्थायी न हो जाए यह सोचकर वह गरम पानी से रगड़ता है। 

सः पुनः पुनः घर्षयति।
= वह पुनः पुनः रगड़ता है। 

तथापि तद् कलुषं दूरं न भवति। 
= फिर भी वो दाग दूर नहीं होता है। 

कलुषस्य तिरोधानं न भवति। 
= दाग नहीं मिटता है। 

सः बलेन घृष्ट्वा कलुषस्य तिरोधानं कर्तुं यतते। 
= वह बलपूर्वक घिसकर दाग मिटाने का प्रयत्न करता है। 

अंततोगत्वा तस्य युतकस्य कलुषं सः अपाकरोति।
= आखिर वह उसकी शर्ट का दाग दूर कर देता है। 

अधुना सः ध्यानपूर्वकं चायं पिबति। 
= अब वो ध्यान से चाय पी रहा है। 

तस्य सम्पूर्णं युतकं स्वच्छं जातम् ।
= उसकी पूरी शर्ट साफ हो गई।


सः व्यजनं न इच्छति ।
= वह पंखा नहीं चाहता है। 

अहं व्यजनं इच्छामि। 
= मैं पंखा चाहता हूँ। 

सः वातानुकूलम् इच्छति।
= वह ए. सी. चाहता है। 

अहं वातानुकूलं न इच्छामि। 
= मैं ए. सी. नहीं चाहता हूँ। 

वातानुकूलिते वातावरणे मां निद्रा न आगच्छति। 
= ए. सी. के वातावरण में मुझे नींद नहीं आती। 

व्यजनं चलति तर्हि  तं निद्रा न आगच्छति। 
= पंखा चलता है तो  उसको नींद नहीं आती है । 

अस्तु अहं बहिः शयनं करोमि।
= ठीक है मैं बाहर सोता हूँ ।

प्रकोष्ठात् बहिः तु मषकाः सन्ति।
= कमरे से बाहर तो मच्छर हैं 

अन्तः एव शयनं करोमि। 
= अंदर ही सोता हूँ।


अत्र मा पठतु ।
= यहाँ मत पढ़िये ।  

अत्र पर्णानि पतन्ति।
= यहाँ पत्ते गिरते हैं। 

अधुना पर्णाझर-ऋतुः अस्ति। 
= अभी पतझड़ ऋतु है 

शुष्कानि पर्णानि वृक्षात् पतन्ति।
= सूखे पत्ते पेड़ से गिरते हैं । 

अत्र छाया अपि न मिलति।
= यहाँ छाया भी नहीं मिलती है 

पर्णानि अपि पतन्ति।
= पत्ते भी गिरते हैं 

अतः अध्य्यनं कर्तुं न शक्ष्यति।
= अतः अध्ययन नहीं कर पाओगे। 

विद्यालयस्य दीर्घां चलावः 
= विद्यालय की लॉबी में चलते हैं 

तत्र छाया अस्ति।
= वहाँ छाया है ।

शान्तिः अपि अस्ति।
= शान्ति भी है ।

संस्कृत वाक्य अभ्यासः  
~~~~~~~~~~~~~~ 

सुरेशः - कति जनाः सन्ति  ? 
            = कितने लोग हैं ? 

महेशः - सप्ततिः जनाः सन्ति ।
           = सत्तर लोग हैं ।

सुरेशः - तर्हि कति मोदकानि आनयानि ? 
          = तो कितने लड्डू लाऊँ ? 

महेशः - एक शतं मोदकानि आनय ।
          = एक सौ लड्डू  लाओ ।

सुरेशः - शतम् ? किमर्थम् ? 
          = सौ ? क्यों ? 

          - अशीतिः आनयामि ।
          = अस्सी लाता हूँ । 

महेशः - नैव प्रसादग्रहण-समये जनाः वर्धन्ते । 
         = नहीं प्रसाद लेने के समय लोग बढ़ जाते हैं । 

सुरेशः - प्रवचनं श्रोतुं सप्ततिः जनाः ।
         = प्रवचन सुनने के लिए सत्तर लोग 

         - प्रसादं ग्रहणार्थम्  शतं जनाः !!!
         = प्रसाद लेने के लिये सौ लोग !!!

-- अखिलेश आचार्य


एक टिप्पणी भेजें

1 टिप्पणियाँ

धन्यवाद:/thank-you

Emoji
(y)
:)
:(
hihi
:-)
:D
=D
:-d
;(
;-(
@-)
:P
:o
:>)
(o)
:p
(p)
:-s
(m)
8-)
:-t
:-b
b-(
:-#
=p~
x-)
(k)