स्वागतम्

 आइए सरल विधि से संस्कृत में बात करना सीखें । यहाँ 👇🏻 क्लिक किजिए और प्रतिदिन क्रमशः एक एक पाठ का अभ्यास किजिए 👇🏻

Click here क्लिक क्लिक 



वदतु संस्कृतम्

 Speaking in Sanskrit




शिष्टाचारः ( Common formulas or Good practices)[सम्पाद्यताम्]

• हरिः ॐ ! = Hello !

• सुप्रभातम् |* = Good morning.

• नमस्कारः/नमस्ते । = Good afternoon/Good evening.

• शुभरात्रिः । = Good night.

• धन्यवादः । = Thank You.

• स्वागतम् । = Welcome.

• क्षम्यताम् । = Excuse/Pardon me.

• चिन्ता मास्तु । = Dont worry.

• कृपया । = Please.

• पुनः मिलामः । = Let us meet again.

• अस्तु । = All right./O.K.

• श्रीमन् । = Sir.

• मान्ये/आर्ये । = Lady.

• साधु साधु/समीचीनम् । = Very good.

मेलनम् ( Meeting )[सम्पाद्यताम्]

• भवतः नाम किम् ? = What is your name? (masc.)

• भवत्याः नाम किम् ? = What is your name? (fem.)

• मम नाम ‌.....। = My name is .....

• एषः मम मित्रं .....। = This is my friend .....

• एतेषां विषये श्रुतवान् = I have heard of them

• एषा मम सखी .....। = This is my friend ..... (fem.).

• भवान् किं (उद्योगं) करोति ? = What do you do? (masc.)

• भवती किं (उद्योगं) करोति? = What do you do? (fem.)

• अहं अध्यापकः अस्मि । = I am a teacher (masc.)

• अहम अध्यापिका अस्मि । = I am a teacher.(fem.)

• अधिकारी/अधिकारिणी = Officer;

• टङ्कलेखकः/टङ्कलेखिका = Typist

• तंत्रज्ञः/तन्त्रज्ञा = Engineer;

• प्राध्यापकः/प्राध्यापिका = Professor

• लिपिकः/लिपिका = Clerk

• न्यायवादी/न्यायवादिनी = lawyer

• विक्रयिकः/विक्रयिका = Salesman;

• व्याख्याता/व्याख्यात्री = Lecturer

• अहं यन्त्रागारे कार्यं करोमि । = I work in a factory.

• कार्यालये = in an office;

• महाविद्यालये = in a college

• वित्तकोषे = in a bank;

• चिकित्सालये = in a hospital

• माध्यमिकशालायां = in a high school;

• यन्त्रागारे = in a factory

• भवान्/भवती कस्यां कक्ष्यायां पठति ? = Which class are you in?

• अहं नवमकक्ष्यायां पठामि । = I am in Std.IX.

• अहं .कक्ष्यायां पठामि । = I am in I/II/III/B.Sc. class.

• भवतः ग्रामः ? = Where are you from?

• मम ग्रामः .....। = I am from .....

• कुशलं वा ? = How are you ?

• कथमस्ति भवान् ? = How are you ?

• गृहे सर्वे कुशलिनः वा ? = Are all well at home?

• सर्वं कुशलम् । = All is well.

• कः विशेषः ? ( का वार्ता ?) = What news?

• भवता एव वक्तव्यम् । = You have to say.

• कोऽपि विशेषः ? = Anything special?

• भवान् (भवती) कुतः आगच्छति ? = Where are you coming from?

• अहं शालातः, गृहतः, ...तः = I am coming from school/house/....

• भवान्/भवती कुत्र गच्छति ? = Where are you going?

• भवति वा इति पश्यामः । = Let us see if it can be done.

• ज्ञातं वा ? = Understand ?

• कथं आसीत् ? = How was it?

• अङ्गीकृतं किल ? = Agreed?

• कति अपेक्षितानि ? = How many do you want?

• अद्य एव वा ? = Is it today?

• इदानीं एव वा ? = Is it going to be now?

• आगन्तव्यं भोः । = Please do come.

• तदर्थं वा ? = Is it for that ?

• तत् किमपि मास्तु । = Don't want that.

• न दृश्यते ? = Can't you see?

• समाप्तं वा ? = Is it over?

• कस्मिन् समये ? = At what time?

• तथापि = even then

• आवश्यकं न आसीत् । = It was not necessary.

• तिष्ठतु भोः । = Be here for some more time.

• स्मरति किल ? = Remember, don't you?

• तथा किमपि नास्ति । = No, it is not so.

• कथं अस्ति भवान् ? = How are you?

• न विस्मरतु । = Don't forget.

• अन्यच्च = besides

• तदनन्तरम् = then

• तावदेव किल ? = Is it only so much?

• महान् सन्तोषः । = Very happy about it.

• तत् तथा न ? = Is it not so?

• तस्य कः अर्थः ? = What does it mean?

• आं भोः । = Yes, Dear, Sir.

• एवमेव = just

• अहं देवालयं/कार्यालयं/विपणिं गच्छामि । = I am going to temple/office/market.

• किं चिराद् दर्शनं ? = What is the matter ? You are not seen these days.

• भवन्तं कुत्रापि दृष्टवान्। = I remember to have seen you somewhere.

• भवान् सम्भाषणशिबिरं आगतवान् वा ? = Have you come to the conversation camp ?

ध्यातव्यं: Note:

• शब्दाः 'भवान्/भवती' is used for the convenience of Samskrita conversation learning.

• The verb used for 'भवान्/भवती' is III Person Singular instead of II Person singular.

• तर्हि कुत्र दृष्टवान् ? = In that case where have I seen you?

• तर्हि तत्रैव दृष्टवान् |= I must have seen you there in that case.

सरल वाक्यानि (Simple sentenes)[सम्पाद्यताम्]

• तथैव अस्तु । = Let it be so/so be it.

• जानामि भोः । = I know it.

• आम्, तत् सत्यम् । = Yes,that is right.

• समीचीना सूचना । = A good suggestion indeed.

• किञ्चित् एव । = A little.

• किमर्थं तद् न भवति ? = Why can't that be done ?

• भवतु नाम । = Leave it at that.

• ओहो ! तथा वा ? = Oh! Is that so ?

• एवमपि अस्ति वा ? = Is it like this ?

• अथ किम् ? = Then ?

• नैव किल ! = No

• भवतु ! = Yes

• आगच्छन्तु । = Come in.

• उपविशन्तु । = Please sit down.

• सर्वथा मास्तु । = Definitely no.

• अस्तु वा ? = Can that be so ?

• किमर्थं भोः ? = Why ?

• प्राप्तं किल ? = You have got it, haven't you ?

सामान्य वाक्यानि (Ordinary sentences)[सम्पाद्यताम्]

• प्रयत्नं करोमि । = I will try.

• न शक्यते भोः । = No, I can't.

• तथा न वदतु । = Don't say that.

• तत्र कोऽपि सन्देहः नास्ति । = There is no doubt about it.

• तद् अहं न ज्ञातवान् । = I didn't know that.

• कदा ददाति ? = When are you going to give me ?

• अहं कथं वदामि 'कदा इति' ? = How can I say when ?

• तथा भवति वा ? = Can that be so ?

• भवतः समयावकाशः अस्ति वा ? = Are you free ?

• अद्य भवतः कार्यक्रमः कः ? = What are your programmes for today ?

• अरे ! पादस्य / हस्तस्य किं अभवत् ? = Oh! What happened to your legs/arms?

• बहुदिनेभ्यः ते परिचिताः। = I have known him for long ( shouldn't be'them' for 'him'? May be plural'te' is used for a VVIP))

• तस्य कियद् धैर्यं/धार्ष्ट्यम् ? = How dare he is ?

• भवान् न उक्तवान् एव । = You have not told me..

• अहं किं करोमि ? = What can I do ?

• अहं न जानामि । = I don't know.

• यथा भवान् इच्छति तथा । = As you wish/say.

• भवतु, चिन्तां न करोतु = Yes, don't bother.

• तेन किमपि न सिध्यति । = There is no use/nothing hppenns on account of that.

• सः सर्वथा अप्रयोजकः । = He is good for nothing.

• पुनरपि एकवारं प्रयत्नं कुर्मः । = Let us try once more.

• मौनमेव उचितम् । = Better be quiet.

• तत्र अहं किमपि न वदामि । = I do not want to say anything in this regard/No comments, please/I must think before I say anything.

• तर्हि समीचीनम् । = O.K. if that is so.

• एवं चेत् कथम् ? = How then, if it is so ?

• मां किञ्चित् स्मारयतु । = Please remind me.

• तं अहं सम्यक् जानामि । = I know him well.

• तदानीमेव उक्तवान् किल ? = Haven't I told you already ?

• कदा उक्तवान् भोः ? = When did you say so ?

• यत्किमपि भवतु । = Happen what may.

• सः बहु समीचीनः = He is a good fellow.

• सः बहु रूक्षः । = He is very rough.

• तद्विषये चिन्ता मास्तु । = Don't worry about that.

• तथैव इति न नियमः । = It is not like that.

• कर्तुं शक्यं, किञ्चित् समयः अपेक्षते । = I/We can do it, but require time.

• न्यूनातिन्यूनं एतावत् तु कृतवान् ! = At least he has done this much !

• द्रष्टुं एव न शक्यते । = Can't see it.

• तत्रैव कुत्रापि स्यात् । = It may be somewhere there.

• यथार्थं वदामि । = I am telling the truth.

• एवं भवितुं अर्हति । = This is O.K./all right.

• कदाचित् एवमपि स्यात् । = It may be like this sometimes.

• अहं तावदपि न जानामि वा ? = Don't I know that much ?

• तत्र गत्वा किं करोति ? = What are you going to do there ?

• पुनः आगच्छन्तु । = Come again.

• मम किमपि क्लेशः नास्ति । = It is no trouble (to me).

• एतद् कष्टं न । = This is not difficult.

• भोः, आनीतवान् वा ? = Have you brought it ?

• भवतः कृते कः उक्तवान् ? = Who told you this ?

• किञ्चिदनन्तरं आगच्छेत् । = He/It may come sometime later.

• प्रायः तथा न स्यात् । = By and large, it may not be so.

• चिन्ता मास्तु, श्वः ददातु । = It is no bother, return it tomorrow.

• अहं पुनः सूचयामि । = I will let you know.

• अद्य आसीत् वा ? = Was it today ?

• अवश्यं आगच्छामि । = Certainly, I will come.

• नागराजः अस्ति वा ? = Is Nagaraj in ?

• किमर्थं तत् एवं अभवत् ? = Why did it happen so ?

• तत्र आसीत् वा ? = Was it there ?

• किमपि उक्तवान् वा ? = Did you say anything ?

• कुतः आनीतवान् ? = Where did you bring it from ?

• अन्यत् कार्यं किमपि नास्ति । = Don't have any other work.

• मम वचनं शृणोतु । = Please listen to me.

• एतत् सत्यं किल ? = It is true, isn't it ?

• तद् अहं अपि जानामि । = I know it myself.

• तावद् आवश्यकं न । = It is not needed so badly.

• भवतः का हानिः ? = What loss is it to you ?

• किमर्थं एतावान् विलम्बः ? = Why are you late ?

• यथेष्टं अस्ति । = Available in plenty.

• भवतः अभिप्रायः कः ? = What do you say about it ?/What is your opinion ?

• अस्य किं कारणम् ? = What is the reason for this ?

• स्वयमेव करोति वा ? = Do you do it yourself ?

• तत् न रोचते ? = I don't like it.

• उक्तं एव वदति सः । = He has been repeating the same thing.

• अन्यथा बहु कष्टम् । = It will be a big botheration if it is not so.

• किमर्थं पूर्वं न उक्तवान् ? = Why didn't you say it earlier ?

• स्पष्टं न जानामि । = Don't know exactly.

• निश्चयः नास्ति । = Not sure.

• कुत्र आसीत् भवान् ? = Where were you ?

• भीतिः मास्तु । = Don't get frightened.

• भयस्य कारणं नास्ति । = Not to fear.

• तदहं बहु इच्छामि = I like that very much.

• कियत् लज्जास्पदम् ? = What a shame ?

• सः मम दोषः न । = It is not my fault.

• मम तु आक्षेपः नास्ति । = I have no objection.

• सः शीघ्रकोपी । = He is short-tempered.

• तीव्रं मा परिगणयतु । = Don't take it seriously.

• आगतः एषऽवराकः । = Camped here.(?)

• युक्ते समये आगतवान् । = you have come at the right time.

• बहु जल्पति भोः । = He talks too much.

• एषा केवलं किंवदन्ती । = It is just gossip.

• किमपि न भवति । = Nothing happens.

• एवमेव आगतवान् । = Just came to call on you.

• विना कारणं किमर्थं गन्तव्यम् ? = Why go there unnecessarily ?

• भवतः वचनं सत्यम् । = You are right.

• मम वचनं कः शृणोति ? = Who listens to me ?

• तदा तद् न स्फुरितम् । = It did not flash me then.

• किमर्थं तावती चिन्ता ? = Why so much botheration ?

• भवतः किं कष्टं अस्ति ? = Tell me, what your trouble is ?

• छे, एवं न भवितव्यं आसीत् । = Tsh, it should not have happened.

• अन्यथा न चिन्तयतु । = Don't mistake me.

मित्र मिलनम् ( Meeting the friends )[सम्पाद्यताम्]

• नमोनमः । = Good morning/afternoon/evening

• किं भोः, दर्शनमेव नास्ति ! = Hello, didn't see you for long !

• नैव, अत्रैव सञ्चरामि किल ! = No, I have been moving about right here !

• किं भोः, वार्ता एव नास्ति ? = Hello, not to be seen for a long time !

• किं भोः, एकं पत्रं अपि नास्ति ? = Hey, You haven't even written a letter !

• वयं सर्वे विस्मृताः वा ? = You have forgotten us all, Haven't you ?

• कथं विस्मरणं भवति भोः ? = How can I forget you ?

• भवतः सङ्केतं एव न जानामि स्म। = I didn't know your address.

• महाजनः संवृत्तः भवान् ! = you have become a big man !

• भवान् एव वा ! दूरतः न ज्ञातम् । = Is it you ? I couldn't recognise you from a distance.

• ह्यः भवन्तं स्मृतवान् । = I remembered you yesterday.

• किं अत्र आगमनम् ? = What made you come here ?

• अत्रैव किञ्चित् कार्यं अस्ति । = I have some work here.

• त्वरितं कार्यं आसीत् | अतः आगतवान् । = I am here as I have some urgent work.

• बहुकालतः प्रतीक्षां करोमि । = I have been waiting for you for a long time.

• यानं न प्राप्तं, अत एव विलम्बः । = Could not get the bus,hence late.

• आगच्छतु भोः, गृहं गच्छामः । = Come, let us go home.

• इदानीं वा, समयः नास्ति भोः । = Now? No time, you know.

• श्वः सायं मिलामः वा ? = Shall we meet tomorrow evening ?

• अवश्यं तत्रैव आगच्छामि । = I'll come there without fail.

• इदानीं कुत्र उद्योगः ? = Where do you work now ?

• यन्त्राकारे उद्योगः । = I work in a factory.

• ग्रामे अध्यापकः अस्मि । = I am a teacher in a village.

• इदानीं कुत्र वासः ? = Where are you put up ?

• एषः मम गृहसङ्केतः । = This is my address.

• यानं आगतं, आगच्छामि । = Bus has come, bye, bye.

• अस्तु, पुनः पश्यामः । = OK. Let us meet again.

• पुनः अस्माकं मिलनं कदा ? = When shall we meet again ?

• पुनः कदा मिलति भवान् ? = When are you going to meet me ? (again)

• तद्दिने किमर्थं भवान् न आगतवान् ? = Why didn't you come that day ?

• वयं आगतवन्तः एव । = We have already arrived.

• भवतः समीपे संभाषणीयं अस्ति । = I have something to talk to you about.

• भवान् अन्यथा गृहीतवान् । = You have mistaken me.

• भवन्तं बहु प्रतीक्षितवान् । = I very much expected you.

• बहुकालतः तस्य वार्ता एव नास्ति । = No news from him for days.

• भवतः पत्रं इदानीं एव लब्धम् । = I have just received your letter.

• किञ्चिद्दूरं अहमपि आगच्छामि । = I will walk with you for some distance.

• मिलित्वा गच्छामः । = Let us go together.

• तिष्ठतु भोः, अर्धार्धं काफी पिबामः । = Wait, let's have a by-two coffee (It appears to mean sharing one cup of coffee between two persons)

• अस्तु, पिबामः । = Fine, let us have it.

• स्थातुं समयः नास्ति । = No time to stay.

• गमनात् अनुक्षणमेव पत्रं लिखतु । = Write as soon as you reach there.

• पुनः कदाचित् पश्यामि । = Meet you again.

• यदा कदा वा भवतु, अहं सिद्धः । = I am ready any day.

• तेषां कृते मम शुभाशयान् निवेदयतु । = Convey my good wishes to them/*him(Only if that person is a VIP).

• किं भोः, एवं वदति ? = Hey, why do you say so ?

• किञ्चित् कालं तिष्ठतु । = Please wait for some time.

• भवान् एव परिशीलयतु । = Think about it, yourself.

• अत्र पत्रालयः कुत्र अस्ति ? = Where is the post office, here ?

• कियद्दूरे अस्ति ? = How far is it ?

• वित्तकोषः कियद्दूरे अस्ति ? = How far is the bank ?

• किमर्थं एवं त्वरा (संभ्रमः) ? = Why so much of confusion ?

• इतोऽपि समयः अस्ति किल ? = There is still time, isn't it ?

• सर्वस्य अपि मितिः भवेत् । = There should be some limit for everything.

• कियद् इति दातुं शक्यम् ? = How much can I give him ?

• कस्मिन् समये प्रतीक्षणीयम् ? = When shall I expect ?

• गृहे उपविश्य किं करोति ? = What are you going to do by sitting at home ?

• भवतः परिचयः एव न लब्धः । = Could not recognize you.

• किं भोः, बहु कृशः जातः ? = Hey, You have become very weak.

• अवश्यं मम गृहं आगन्तव्यम् । = Please do call on us.

• सः सर्वत्र दर्वीं चालयति । = He pokes his nose everywhere.

• यथा भवान् इच्छति । = I am game for whatever you say.

• परिहासाय उक्तवान् भोः । = I said it in fun, You know.

• एषः भवतः अपराधः न । = It is not your fault.

• नैव, चिन्ता नास्ति । = No, no trouble/botheration.

• वयं इदानीं अन्यद्गृहे स्मः । = We live in a different home now/Changed our residence.

• भवान् मम अपेक्षया ज्येष्ठः वा ? = Are you elder to me ?

• ओहो, मम अपेक्षया कनिष्ठः वा ? = Younger to me, is it ?

• भवान् विवाहितः वा ? = Are you married ?

• नैव, इदानीमपि एकाकी । = No, still a bachelor.

• भवतः पिता कुत्र कार्यं करोति ? = Where does your father work ?

• सः वर्षद्वयात् पूर्वमेव निवृत्तः । = He retired two years ago.

• सः वृद्धः इव भाति । = He looks aged.

• भवन्तः सर्वे सहैव वसन्ति वा ? = Do all of you live together ?

• नैव, सर्वे विभक्ताः = No, we live separately.

• भवतः वयः कियत् ? = How old are you ?

• भवन्तः कति सहोदराः ? = How many brothers are you ?

• वयं आहत्य अष्टजनाः । = We are eight.

• भवान् एव ज्येष्ठः वा ? = Are you the eldest ?

• मम एकः अग्रजः अस्ति । = I have an elder brother.

• सः इदानीमपि बालः । = He is still a boy.

• भवतः अनुजायाः कति वर्षाणि ? = How old is your younger sister ?

• भवान् मा ददातु, मा स्वीकरोतु । = Neither give, nor take anything.

• अन्यं कमपि न पृच्छतु । = Don't ask anyone except me.

• तर्हि सर्वं दायित्वं भवतः एव । = In that case the entire responsibility is yours.

• सर्वत्र अग्रे सरति । = He takes the initiative in everything.

• भवन्तं गृहे एव पश्यामि । = I will see you in your house.

• सः निष्ठावान् । = He is very orthodox.

• यावदहं प्रत्यागच्छामि, तावद् प्रतीक्षां करोतु । = Wait till I come.

• द्वयोः एकः आगच्छतु । = Either of the two come.

• तस्य कृते विषयः निवेदितः वा ? = Have you informed him about the news?

• तस्य कृते सः अत्यन्तं प्रीतिपात्रम् । = He is closely related to him.

• भवता एतद् न कर्तव्यम् । = You should not do this.

• यदि सः स्यात्\.\.\. । = Had he been here...

• अवश्यं आगन्तव्यं, न विस्मर्तव्यम् । = Don't forget, please do come.

• कियत् कालं तिष्ठति ? = How long will you be here?

• एषा वार्ता मम कर्णमपि आगता । = I have heard of this news.

• सः स्तोकात् मुक्तः । = He escaped narrowly.

• भवन्तं द्रष्टुं सः पुनः आगच्छति किल ? = He is going to come back to see you. Isn't he ?

• अहं किमर्थं असत्यं वदामि ? = Why should I tell a lie ?

• भवान् अपि एवं वदति वा ? = Of all the people are you going to say this ?

• भवान् एवं कर्तुं अर्हति वा ? = Can you do this ?

• भवान् गच्छतु, मम किञ्चित् कार्यं अस्ति । = You proceed, I have some work.

• वृथा भवान् चिन्तां करोति । = You just worry unnecessarily.

• दैवेच्छा तदा आसीत्, किं कुर्मः ? = It was God's will. What shall we do ?

• अहं अन्यद् उक्तवान्, भवान् अन्यद् गृहीतवान् । = I told you one thing. You understood it differently.

• एतावद् अनृतं वदति इति न ज्ञातवान् । = I never expected that he would tell a lie.

• प्रमादतः संवृत्तम्, न तु बुद्ध्या । = I did not do it purposely. It was just accidental.

• एषः एकः शनिः । = This fellow is a bugbear.

• भवदुक्तं सर्वमपि अङ्गीकर्तुं न शक्यम् । = I cannot agree with all you say.

• अहं गन्तुं न शक्नोमि । = I cannot go.

• विषयस्य वर्धनं मास्तु । = Don't escalate the matter.

• सर्वेऽपि पलायनशीलाः । = All these fellows take to their heels in the face of danger.

• असम्बद्धं मा प्रलपतु । = Don't talk foolishly.

• सर्वस्य अपि भवान् एव मूलम् । = You are the root cause of all these.

• सुलभेन तस्य जाले पतितवान् । = He fell into his trap easily.

• अस्माकं मिलनानन्तरं बहु कालः अतीतः । = It is a long time since we met.

• इदानीं आगन्तुं न शक्यते । = I cannot come now.

• भवान् अपि अङ्गीकरोति वा ? = Do you agree ?

• भवान् अपि विश्वासं कृतवान् ? = Did you believe that ?

• सः विश्वासयोग्यो वा ? = Is he trustworthy ?

• किञ्चित् साहाय्यं करोति वा ? = Would you mind helping me a bit ?

• समयः कथं अतिशीघ्रं अतीतः ! = How quickly the time passed !

• युक्ते समये आगतवान् । = You have come at the right time.

• एक निमेषं विलम्बः चेत् अहं गच्छामि स्म । = I would have left if you were late by a minute.

• अहमपि भवता सह आगच्छामि वा ? = Shall I come with you ?

• किञ्चित् कालं द्विचक्रिकां ददाति वा ? = Would you mind lending me your bicycle for a few minutes ?

• इदानीं मया अपि अन्यत्र गन्तव्यम् । = I have to go somewhere now.

• भवान् स्वकार्यं पश्यतु । = You mind your business.

• शीघ्रं प्रत्यागच्छामि । = I'll be back in a short while.

• आवश्यकं चेत् श्वः आनयामि । = If you want it, I shall bring it tomorow.

• {\rm `}मास्तु{\rm '} इत्युक्तेऽपि सः न शृणोति । = I said no,but he doesn't listen to me.

एक टिप्पणी भेजें

0 टिप्पणियाँ