संस्कृत वाक्य अभ्यास
Sanskrit sentence study
भवान् / भवती धनम् इच्छति।
= आप धन चाहते/ चाहती हैं ।
You want money
त्वम् अपि धनम् इच्छसि ।
= तुम भी धन चाहते हो ।
You also want money.
सः / सा अपि धनम् इच्छति ।
= वह भी धन चाहता / चाहती है ।
He also wants money.
अहमपि धनम् इच्छामि ।
= मैं भी धन चाहता हूँ ।
I also want money.
किमर्थं सर्वे धनम् इच्छन्ति ?
= सभी धन क्यों चाहते हैं ?
Why does everyone want money?
धनं विना किमपि कार्यम् न भवति ।
= धन के बिना कुछ काम नहीं होता है ।
Nothing works without money.
जन्मनि धनम् आवश्यकं भवति
= जन्म में धन आवश्यक होता है ।
Money is necessary at birth.
मरणे अपि धनम् आवश्यकं भवति
= मृत्यु में भी धन आवश्यक होता है ।
Money is necessary even in death.
अद्य सर्वे प्रायः धनमेव याचन्ते।
= आज सभी प्रायः धन ही मांगते हैं ।
Today, everyone usually asks for money.
--------------
सः शिरसि नारिकेलस्य तैलं स्थापयति
= वह सिर पर नारियल का तेल लगाता है ।
He applies coconut oil to the head.
सः शरीरे सरसवस्य तैलं मर्दयति
= वह शरीर पर सरसों का तेल मलता है ।
He rubs mustard oil on the body.
सः मुखे वातामस्य तैलं संवाहयति
= वह मुँह पर बादाम का तेल लगाता है ।
He applies almond oil to the mouth.
सः भूचणकस्य तैलेन भोजनं निर्माति
= वह मूंगफली के तेल से भोजन बनाता है ।
He makes food with peanut oil.
दीपे सः एरंडतैलं स्थापयति ।
= दीपक में वह अंडी का तेल डालता है ।
He puts egg oil in the lamp.
तस्य नासिकायां पीड़ा भवति ।
= उसकी नाक में दर्द हो रहा है ।
His nose is hurting.
अतः सः नासिकायां षड्बिन्दु-तैलं स्थापयति ।
= अतः वह नाक में षड्बिंदु तेल डालता है ।
Therefore, he puts the oil in the nose.
स्नानात् पूर्वं सः तिलस्य तैलं मर्दयति
= स्नान से पहले वह तिल का तेल मलता है ।
He rubs sesame oil before bathing.
केचन जनाः सूर्यमुखे: तैलेन भोजनं निर्मान्ति
= कुछ लोग सूरजमुखी के तेल से भोजन बनाते हैं ।
Some people make food with sunflower oil.
तैलं पश्य तैलस्य धारां पश्य ।
= तेल देखो तेल की धार देखो ।
Look at the oil Look at the oil edge.
-----
सा चलभाषस्य कूटाङ्कं विस्मृतवती।
= वह मोबाइल का पासवर्ड भूल गई।
चलभाषं संचालयितुं न शक्नोति सा ।
= वह मोबाइल ऑपरेट नहीं कर पा रही है।
मात्रा सह वार्तां कर्तुम् इच्छति सा।
= वह माँ के साथ बात करना चाहती है।
सा अनेकवारं प्रयत्नं कृतवती।
= उसने अनेक बार प्रयत्न किया।
जनाः चलभाषे कूटाङ्कं योजयन्ति।
= लोग मोबाइल में संख्या का पासवर्ड रखते हैं।
जनाः चलभाषे कूटाकृतिं योजयन्ति।
= लोग मोबाइल में आकृति वाला पासवर्ड रखते हैं।
सर्वेषां भिन्ना भिन्ना आकृतिः भवति।
= सबकी भिन्न भिन्न आकृति होती है।
अन्यः कोsपि जनः रक्षिताकृतिं विहाय किमपि आकृतिं रचयति तदा चलभाषः कार्यं न करोति।
= अन्य कोई भी व्यक्ति रक्षित आकृति के सिवाय कोई भी आकृति रचता तो मोबाइल काम नहीं करता है।
व्यक्तिगतं विवरणं सुरक्षितं भवेत् तदर्थं कूटाकृतिं वा कूटाक्षरं योजयन्तु।
= व्यक्तिगत विवरण सुरक्षित रहे इसके लिये आकृति या संख्या का पासवर्ड रखिये।
कूटाक्षरं मा विस्मरन्तु।
= पासवर्ड मत भूलिये।
संस्कृत वाक्य अभ्यासः
~~~~~~~~~~~~
अद्य अहं कर्णावती नगरे अस्मि
= आज मैं अहमदाबाद में हूँ ।
अद्य मम पदोन्नत्यर्थम् परीक्षा अस्ति
= आज मेरी पदोन्नति के लिए परीक्षा है ।
अत्र परीक्षां दातुम् आगतवान् अस्मि
= यहाँ परीक्षा देने आया हूँ ।
परीक्षां दातुम् अनेके अधिकारिणः आगताः सन्ति
= परीक्षा देने अनेक अधिकारी आए हुए हैं ।
ते सर्वे पदोन्नतिं प्राप्तुम् बहु उत्सुकाः सन्ति
= वे सभी पदोन्नति पाने के लिए बहुत उत्सुक हैं ।
अहं तु अध्ययनम् एव न कृतवान्
= मैंने तो पढ़ा ही नहीं है ।
तथापि परीक्षां दास्यामि
= फिर भी परीक्षा दूँगा ।
सायंकाले श्री नीलेश धनाणीम् मेलिष्यामि
= शाम को श्री नीलेश धनाणी को मिलूँगा ।
सः अपि संस्कृत प्रचारकः खलु
= वह भी संस्कृत प्रचारक हैं न
तेन सह संस्कृत भाषायां वार्तालापं करिष्यामि
= उनके साथ संस्कृत में बातचीत करूँगा ।
सः स्वामी अक्षयानन्दः अस्ति।
= वह स्वामी अक्षयानन्द हैं।
सः उत्तरकाश्यां निवसति।
= वो उत्तरकाशी में रहते हैं ।
गङ्गानद्याः तटे तेषाम् आश्रमः अस्ति।
= गङ्गा नदी के तट पर उनका आश्रम है।
सन्यासात् पूर्वं तस्य नाम चन्द्रभूषण शास्त्री आसीत्।
= सन्यास से पहले उनका नाम चंद्रभूषण शास्त्री था।
सः सर्वदा सर्वत्र संस्कृतभाषायाम् एव वदति।
= वह हमेशा सब जगह संस्कृत में ही बात करते हैं।
सः सर्वै: सह संस्कृतभाषायाम् एव वदति।
= वह सबके साथ संस्कृत में ही बात करते हैं।
विंशतिः वर्षेभ्यः पूर्वं सः मम गृहम् आगतवान् ।
= बीस वर्ष पहले वे मेरे घर आए थे।
संस्कृते सम्भाषणं कर्तुं मां प्रेरितवान् आसीत्।
= संस्कृत में बातचीत करने के लिये मुझे प्रेरित किया था।
तेन सह अनेकवारं वार्तालापः भवति।
= उनके साथ अनेक बार बात होती है।
ह्यः एव दूरवाण्या वार्तालापः जातः।
= कल ही फोन से बात हुई।
सः मह्यम् आशीर्वादम् अयच्छत्।
= उन्होंने मुझे आशीर्वाद दिया।
संस्कृत वाक्याभ्यासः
~~~~~~~~~~~~~~
गतदिने अहं नड़ियादे आसम् ।
= कल मैं नडियाद में था / थी
तत्र संतराम आश्रमः वर्तते ।
= वहाँ संतराम आश्रम है ।
संतराम आश्रमे संस्कृत-सम्भाषण वर्गः चलति ।
= संतराम आश्रम में संस्कृत सम्भाषण वर्ग चल रहा है ।
वर्गे त्रिशतं छात्राः सन्ति ।
= वर्ग में तीन सौ छात्र हैं
सार्ध-एकशतं युवतयः सन्ति।
= डेढ़ सौ युवतियाँ हैं
सार्ध-एकशतं युवकाः सन्ति ।
= डेढ़ सौ युवक हैं
सर्वे छात्राः सम्यक् संस्कृतं पठन्ति
= सभी छात्र अच्छे से संस्कृत पढ़ रहे हैं
तत्र संस्कृत-पुस्तकानि अपि लभन्ते।
= वहाँ संस्कृत पुस्तकें भी मिल रही हैं
संस्कृत-प्रदर्शनी अपि तैः स्थापिता अस्ति ।
= संस्कृत-प्रदर्शनी भी उन्होंने लगाई है ।
संस्कृतमयं वातावरणं दृष्ट्वा मनः प्रसन्नं जातम् ।
= संस्कृतमय वातावरण देखकर मन प्रसन्न हो गया ।
कुर्वन्तु नित्यं संस्कृताभ्यासम्।।
कस्य = किसका , किसके
सः कस्य पुत्रः अस्ति ?
= वह किसका बेटा है ?
भवान् कस्य भ्राता अस्ति ?
= आप किसके भाई हैं ?
यस्य = जिसका , जिसके जिसकी
यस्य कोषे धनम् अस्ति सः दानं दद्यात्
= जिसकी जेब में धन है वह दान दे
तस्य = उसका , उसके उसकी
तस्य गृहम् अत्र नास्ति
तस्य भगिनी भरतनाट्यं करोति
= उसकी बहन भरतनाट्यं कर रही है ।
भवतः = आपका , आपकी , आपके
भवतः ध्यानं कुत्र अस्ति ?
= आपका ध्यान कहाँ है ?
कस्याः = किसकी किसका किसके
कस्याः माता समाजसेवां करोति ?
= किसकी माँ समाजसेवा करती है ?
यस्याः = जिसकी जिसका जिसके
यस्याः माता सुशिक्षिता अस्ति
= जिसकी माँ सुसंस्कारिणी है ।
तस्याः = उसकी उसका उसके
तस्याः लेखम् अहं पठितवान्
= उसका लेख मैंने पढ़ा ।
मम = मेरा , मेरी , मेरे
मम भ्राता उज्जैनं गतवान् अस्ति
= मेरे भैया उज्जैन गए हैं ।
तव = तेरा , तेरी , तेरे
तव पाठशालायाः समयः जातः
= तुम्हारी पाठशाला का समय हो गया ।
संस्कृत वाक्य अभ्यासः
~~~~~~~~~~~~
बहूनि दिनानि पूर्वम्
= बहुत दिन पहले
बहूनि दिनानि अभवन्
= बहुत दिन हो गए
बहूनि दिनानि अनन्तरम्
= बहुत दिनों के बाद
बहूनि दिनानि प्रयन्तम्
= बहुत दिनों तक
बहुभ्यः दिनेभ्यः प्रभृतिः
= बहुत दिनों से
बहूनि दिनानि पूर्वं सः मम गृहम् आगतवान् आसीत्
= बहुत दिन पहले वह मेरे घर आया था ।
बहूनि दिनानि अभवन् सः मम गृहं न आगतवान्
= बहुत दिन हो गए वह मेरे घर नहीं आया है ।
बहूनि दिनानि अनन्तरं सः मम गृहम् आगतवान्
= बहुत दिनों के बाद वह मेरे घर आया ।
बहूनि दिनानि पर्यन्तं सः मम गृहे स्थितवान्
= बहुत दिनों तक वह मेरे घर रुका ।
बहुभ्यः दिनेभ्यः प्रभृतिः सः प्रतिदिनं मम गृहम् आगच्छति
= बहुत दिनों से वह हररोज मेरे घर आता है ।
बहूनि दिनानि अतीतानि
= बहुत दिन हो गए हैं
बहूनि दिनानि अतीतानि वर्षा न जाता
= बहुत दिन हो गए हैं वर्षा नहीं हुई ।
-- अखिलेश आचार्य
संस्कृत वाक्य अभ्यास - 11 के लिए यहाँ 👇🏻 क्लिक करें
https://jagdishdabhisanskritm.blogspot.com/2020/11/11.html
1 टिप्पणियाँ
बहुशोभनम् महोदय:।भवान् एतानि वाक्यानि कथं लिखितवान्।एतादृशानि वाक्यानि वयं कथं लेखितुं शक्नुम:।कृपया मार्गदर्शन ं करोतु।
जवाब देंहटाएंधन्यवाद:/thank-you
Emoji