संस्कृत वाक्य अभ्यास
Sanskrit sentence study
राजेशः पनवेल-नगरे निवसति।
= राजेश पनवेल में रहता है।
पनवेले सः केन्द्रीय-विद्यालये शिक्षकः अस्ति।
= पनवेल में वह केंद्रीय विद्यालय में शिक्षक है।
सः संस्कृतशिक्षकः अस्ति।
= वह संस्कृत शिक्षक है।
पाठनसमये सः हस्ते पुस्तकं न स्थापयति।
= पढ़ाते समय वह हाथ में पुस्तक नहीं रखता है।
सः सर्वान् पाठान् अभिनयं कृत्वा पाठयति।
= वह सभी पाठ अभिनय करके पढ़ाता है।
तस्य छात्राः अपि अभिनयं कृत्वा उत्तरं ददति।
= उसके छात्र भी अभिनय करके उत्तर देते हैं।
सः प्रतिदिनं श्लोकान् वा गीतम् गापयति।
= वह प्रतिदिन श्लोक या गीत गवाता है।
सः एकं वाक्यं वदति।
= वह एक वाक्य बोलता है।
छात्राः तस्य अनुकरणं कुर्वन्ति।
= छात्र उसका अनुकरण करते हैं।
छात्राः नूतनानि वाक्यानि अपि वदन्ति।
= छात्र नए वाक्य भी बोलते हैं।
छात्राः राजेशस्य पाठन पद्धत्या प्रसन्नाः सन्ति।
= छात्र राजेश की पढ़ाने की पद्धति से खुश हैं।
----------
आनन्दस्य विषयः अयम् ।
= यह आनंद का विषय है ।
It is a matter of enjoyment.
संस्कृत-भाषायाम् एकं चलचित्रं निर्मितम् ।
= संस्कृत भाषा में एक फ़िल्म बनी है
A film has been made in Sanskrit language.
नूतनं चलचित्रम् अस्ति ।
= नई फ़िल्म है ।
Is a new film.
चलचित्रस्य नाम "अहं ब्रह्मास्मि" अस्ति ।
= फ़िल्म का नाम अहं ब्रह्मास्मि है ।
The name of the film is aham Brahmasmi.
बॉलीवुडस्य इदं प्रथमं चलचित्रम् अस्ति ।
= बॉलीवुड की यह पहली फिल्म है ।
This is the first Bollywood film.
संस्कृतभाषायाया: प्रथम-चलचित्रस्य नाम " प्रियमानसम्" अस्ति ।
= संस्कृत भाषा की प्रथम फ़िल्म का नाम प्रियमानसम् है ।
The name of the first film in Sanskrit language is Priyamanasam.
"प्रियमानसम्" संस्कृत-भाषायां इदं तृतीयं चलचित्रम् अस्ति ।
= "प्रियमानसम्" संस्कृत भाषा में यह तीसरी फ़िल्म है
"Priyamanasam" is the third film in Sanskrit language
1983 तमे वर्षे "आदि शंकराचार्य " चलचित्रम् आगतम् ।
= 1983 के साल में आदि शंकराचार्य फ़िल्म आई थी ।
In the year of 1983, the film Adi Shankaracharya came out.
1993 तमे वर्षे भगवद्गीता चलचित्रम् आगतम् ।
= 1993 के साल में भगवद्गीता फिल आई थी ।
In the year 1993, Bhagavad Gita came.
सर्वे संस्कृतानुरागिणः प्रियमानसं, आदि शंकराचार्य, भगवद्गीता, अहं ब्रह्मास्मि च चलचित्राणि अवश्यमेव पश्यन्तु ।
= सभी संस्कृतानुरागी प्रियमानसम्, आदि शंकराचार्य, भगवद्गीता और अहं ब्रह्मास्मि फ़िल्में अवश्य देखें ।
Must see all Sanskritanuragi Priyamanasam, Adi Shankaracharya, Bhagavadgita and aham Brahmasmi movies.
संस्कृत-चलचित्रस्य निर्मात्रे निर्देशकाय च बहवः धन्यवादाः ।
= संस्कृत फ़िल्म के निर्माता और निर्देशक को बहुत बहुत धन्यवाद ।
Thank you very much to the producer and director of the Sanskrit film.
वयमपि संस्कृत- चलचित्रं निर्मातुं शक्नुमः ।
= हम भी संस्कृत फ़िल्म बना सकते हैं ।
We can also make Sanskrit films.
अधुना अहं ब्रह्मास्मि चलचित्रम् अहम् अवश्यमेव द्रक्ष्यामि ।
= अब अहं ब्रह्मास्मि फ़िल्म मैं अवश्य देखूँगा ।
Now I will definitely watch the aham Brahmasmi film.
-----------
जयपुरतः सः रेलयानम् आरोहति।
= जयपुर से वह रेल में चढ़ता है।
From Jaipur, he gets on the train.
यदा सः आरोहति तदा शैत्यं न आसीत्।
= जब वह चढ़ता है तब ठंड नहीं थी।
When he climbs there was no cold.
सः सामान्यानि वस्त्राणि धारयित्वा आरूढवान्।
= वह सामान्य वस्त्र पहन कर चढ़ गया।
He climbed into normal clothes.
मार्गे अर्धरात्रौ शैत्यम् अवर्धत।
= रास्ते में आधी रात में ठंड बढ़ गई।
On the way, the cold increased at midnight.
सर्वाणि वातायनानि अपि पिहितानि।
= सब खिड़कियाँ भी बंद हो गईं।
All the windows were also closed.
सर्वाणि व्यजनानि अपि स्थागितानि।
= सारे पंखे भी रुक गए।
All the fans also stopped.
तथापि शैत्यं तु आसीत् एव ।
=फिर भी ठंड तो थी ही ।
Even then it was cold.
सः एकम् उरूकं निष्कास्य धारितवान्
= उसने एक पैंट निकलकर पहन ली।
He took off his pants.
द्वितीयम् उरुकम् अपि धारितवान्।
= दूसरी भी पेंट पहन ली ।
The other one also wore paint.
तथैव सः युतकद्वयं धारितवान्।
= उसी प्रकार उसने दो शर्ट पहन ली।
Similarly, he put on two shirts.
अधुना सः शैत्यं न अनुभवति।
= अब वह ठंड अनुभव नहीं कर रहा है।
Now he is not feeling cold.
---------
सम्पूर्णं जगत् कोsपि द्रष्टुं न शक्नोति।
= सम्पूर्ण जगत कोई भी नहीं देख सकता है।
No one can see the whole world.
जगत् बहु विशालम् अस्ति।
= जगत बहुत विशाल है।
The world is very vast.
जगति द्रष्टुं किं किं नास्ति ?
= जगत में देखने के लिये क्या क्या नहीं है ?
What is there to see in the world?
अनेकानि नगराणि सन्ति।
= अनेक नगर हैं।
There are many cities.
अनेके ग्रामाः सन्ति।
= अनेक गाँव हैं।
There are many villages.
अनेकाः नद्यः सन्ति।
= अनेक नदियाँ हैं।
There are many rivers.
वयं सर्वासु नदीषु स्नानं कर्तुं न शक्ष्यामः।
= हम सभी नदियों में स्नान नहीं कर पाएँगे।
We will not be able to bathe in all the rivers.
कति पर्वताः सन्ति ?
= कितने पर्वत हैं ?
How many mountains are there?
वयं सर्वान् पर्वतान् आरोढुं न शक्ष्यामः।
= हम सभी पर्वतों पर चढ़ नहीं पाएँगे।
We will not be able to climb all the mountains.
अनेकानि वनानि सन्ति।
= अनेक वन हैं।
There are many forests.
वयं प्रवेष्टुम् अपि न शक्नुमः तादृशानि वनानि सन्ति।
= हम प्रवेश भी नहीं कर पाएँ ऐसे वन हैं।
We cannot even enter such forests.
समुद्रः अपि बहु विशालः अस्ति।
= समुद्र भी बहुत विशाल है।
The sea is also very vast.
गहनात् सागरात् केचन जनाः बिभ्यति।
= गहरे सागर से कुछ लोग डरते हैं।
Some people are afraid of the deep ocean.
यावत् जगत् दृष्टं तावदेव समीचीनम् ।
= जितना जगत देखा उतना ही ठीक है।
The world is as good as seen.
******
सरल संस्कृत सम्भाषण सीखाने का आपको ये तरीका पसंद आयें तो शेयर करना न भूलें ।
------
सः नदीम् उत्तीर्य पाठशालां गच्छति स्म
= वह नदी पार कर के स्कूल जाते थे ।
तथापि सः तेजस्वी छात्रः आसीत्
= फिर भी वह तेजस्वी छात्र थे ।
सः देशभक्तः आसीत्
= वह देशभक्त थे ।
सः अपि सत्याग्रहम् अकरोत्
= उसने भी सत्याग्रह किया था ।
अस्माकं सैनिकाः तस्य सम्मानं कुर्वन्ति स्म
= हमारे सैनिक उसका आदर करते थे ।
पाकिस्तानी जनाः तस्मात् बिभ्यति स्म
= पाकिस्तानी लोग उससे डरते थे ।
सः अस्माकं प्रधानमन्त्री आसीत्
= वह हमारे प्रधानमन्त्री थे ।
ताशकन्दे छलेन तस्य मृत्यु: अभवत्
= ताशकन्द में छल से उसकी मृत्यु हो गई ।
सः कः आसीत् ?
= वह कौन थे ?
तस्य महापुरुषस्य नाम लिखन्तु ।
= उस महापुरुष का नाम लिखिये ।
अहं तं वन्दे ।
= मैं उनको वन्दन करता हूँ ।
संस्कृत वाक्य अभ्यासः
~~~~~~~~~~~~
पिता-पुत्रयोः सम्वादः
पिता - वत्स ,त्वं किं करोषि ?
= बेटा , तुम क्या कर रहे हो ?
पुत्रः - अधुना अहं किमपि न करोमि
= अभी मैं कुछ नहीं कर रहा हूँ
पिता - किमर्थं न करोषि ?
= क्यों नहीं कर रहे हो ?
पुत्रः - अधुना करिष्यामि
= अभी करूँगा ।
पिता - व्यर्थमेव न उपवेषणीयम्
= व्यर्थ में नहीं बैठना चाहिए ।
पिता - किं करिष्यसि ?
= क्या करोगे ?
पुत्रः - पठिष्यामि
= पढूँगा ।
पिता - कदा पठिष्यसि ?
= कब पढ़ोगे ?
पुत्रः - आम् , पठिष्यामि तात
= हाँ पढूँगा पिताजी ।
पिता - " पश्यामि सः किं करोति "
= देखता हूँ वह क्या कर रहा है
पिता - ओह , त्वं तु लिखसि
= ओह , तुम तो लिख रहे हो
पिता - किं लिखसि पुत्र ?
- क्या लिख रहे हो बेटा ?
पुत्र - अहं मातरं पत्रं लिखामि
= मैं माँ को पत्र लिख रहा हूँ ।
पुत्रः - मातुलस्य गृहात् शीघ्रम् आगच्छतु ।
= मामा के घर से जल्दी आ जाईये
पिता - किमर्थम् ?
= क्यों ?
पुत्रः - मातरं विना मम मनः न लगति
= माँ के बिना मेरा मन नहीं लग रहा है ।
संस्कृत वाक्याभ्यासः
~~~~~~~~~~~~~~
* मम उपधानं कुत्र अस्ति ?
= मेरी तकिया कहाँ है ?
** भवतः उपधानं पर्यंके एव अस्ति।
= आपकी तकिया पलंग पर ही है
* एतद् न , रात्रौ भिन्नम् उपधानम् अस्ति ।
= ये नहीं , रात को अलग तकिया थी ।
** भिन्नम् आसीत् !!!
= अलग थी !!!
** भवतः उपधानं न जानाति !!!
= आपकी तकिया नहीं जानते !!!
* रात्रौ अहं मम उपधाने संस्कृत-वाक्यानि लिखितवान् ।
= मैंने रात में मेरी तकिया पर संस्कृत वाक्य लिखे थे ।
* तद् उपधानं कुत्र अस्ति ?
= वो तकिया कहाँ है ?
** ओह , भवान् रात्रौ संस्कृते एव स्वप्नं पश्यति ।
= ओह , आप रात में संस्कृत में ही सपना देखते हैं
** संस्कृतस्य एव स्वप्नं पश्यति ।
= संस्कृत का ही सपना देखते हैं
** उपधाने कोsपि लिखति वा ?
= तकिया पर कोई लिखता है क्या ?
* ओह , अहं स्वप्नं पश्यामि स्म !!!
= ओह , मैं सपना देख रहा था !!!
द्वे मार्जार्यौ = दो बिल्लियाँ
द्वौ मार्जार्यौ मम गृहे स्तः।
= दो बिल्लियाँ मेरे घर में हैं ।
( अस्ति स्तः सन्ति )
गृहं परितः भ्रमतः
= घर के चारों और घूमती हैं।
( भ्रमति भ्रमतः भ्रमन्ति )
यदा मूषकः दृश्यते तदा तस्य पृष्ठे धावतः ।
( धावति धावतः धवन्ति )
पाकशालायां कोsपि न भवति तदा दुग्धं पिबतः ।
= रसोई में कोई नहीं होता है तब दूध पी लेती हैं
( पिबति पिबतः पिबन्ति )
मम आसन्दस्य अधः शयनं कुरुतः ।
= मेरी कुर्सी के नीचे सोती हैं ।
( करोति कुरुतः कुर्वन्ति )
मां दृष्ट्वा ते द्वे म्याऊँ म्याऊँ इति वदतः।
= मुझे देखकर दोनों म्याऊँ म्याऊँ बोलती हैं।
( वदति वदतः वदन्ति ),
बालकाः ताभ्यां सह क्रीडन्ति।
= बच्चे उनके साथ खेलते हैं।
( क्रीडति क्रीडतः क्रीडन्ति )
अंधकारे तयोः नेत्राणि दीव्यन्ते ।
= रात में उनकी आँखें चमकती हैं।
( दीव्यते दीव्येते दीव्यन्ते )
मार्जारी प्रीतिपशु: अस्ति ।
= बिल्ली पालतू प्राणी है ।
संस्कृत वाक्य अभ्यासः
~~~~~~~~~~~~
अद्य रविवासरः अस्ति
= आज रविवार है ।
अहं गृहे अस्मि
= मैं घर पे हूँ ।
बालकाः अपि गृहे सन्ति
= बच्चे भी घर पर हैं ।
सर्वे एकसाकं ध्यानं कुर्वन्ति
= सभी एक साथ ध्यान कर रहे हैं ।
अनन्तरं सर्वे एकसाकं अल्पाहारं करिष्यन्ति
= बाद में सभी एक साथ नाश्ता करेंगे
एकसाकं सर्वे संस्कृतं पठिष्यन्ति
= एक साथ सभी संस्कृत पढ़ेंगे ।
एकसाकं सर्वे गृहं प्रक्षालयिष्यन्ति
= एक साथ सभी घर साफ करेंगे ।
वयं सर्वे एकसाकं भोजनं निर्मास्यामः
= हम सभी एक साथ भोजन बनाएँगे
सायंकाले वयं सर्वे एकसाकं संस्कृतगीतं गास्यामः
= शाम को हम सभी एक साथ संस्कृत गीत गाएँगे
वयं सर्वे एकसाकं भ्रमणार्थम् गमिष्यामः
= हम सभी एक साथ घूमने जाएँगे
एकसाकं गृहम् आगमिष्यामः
= एक साथ घर आ जाएँगे
-- अखिलेश आचार्य
संस्कृत वाक्य अभ्यास - 19 के लिए --- Click Here
1 टिप्पणियाँ
Very nice sir aap aise hi sanskrit par kam karte rhe hum aapke aabhari h
जवाब देंहटाएंधन्यवाद:/thank-you
Emoji