स्वागतम्

 आइए सरल विधि से संस्कृत में बात करना सीखें । यहाँ 👇🏻 क्लिक किजिए और प्रतिदिन क्रमशः एक एक पाठ का अभ्यास किजिए 👇🏻

Click here क्लिक क्लिक 



49) संस्कृत वाक्य अभ्यास

 संस्कृत वाक्य अभ्यास

Sanskrit sentence study


सः कान्हाभाई अस्ति । 

= वह कान्हाभाई है। 


निम्बवृक्षस्य अधः तस्य लघुआपणम् अस्ति।

= नीम के पेड़ के नीचे उसकी छोटी सी दुकान है। 


अद्य प्रातः अहं तं दृष्टवान्। 

= आज सुबह मैंने उसे देखा। 

आपणस्य उद्घाटनात् पूर्वं सः सूर्यनमस्कारं कृतवान्। 

= दूकान खोलने से पहले उसने सूर्यनमस्कार किया। 


अनन्तरं कान्हाभाई भूमिम् अनमत्। 

= उसके बाद कान्हाभाई ने भूमि को नमन किया। 


अनन्तरं सः आपणम् उद्घाटितवान्। 

= उसके बाद उसने दूकान खोली। 


आपणात् सर्वप्रथमं सौरफलकं निष्कासितवान्। 

= दूकान से सबसे पहले सोलर पैनल निकाला ।


सः सौरफलकं सूर्याभिमुखं स्थापितवान्। 

= उसने सोलर पैनल को सूर्य की ओर रखा। 


सौरफलकेन रात्रौ सः विद्युतं प्राप्नोति। 

= सोलर पैनल से वह रात में बिजली पाता है। 


सायंकाले तस्य पुत्रः संगणकं चालयति। 

= शाम को उसका बेटा कम्प्यूटर चलाता है। 


सौरऊर्जायाः सदुपयोगः भवति। 

= सौर ऊर्जा का सदुपयोग होता है।

संस्कृत वाक्याभ्यासः  

~~~~~~~~~~~~~~~


सः सारंगः अस्ति ।

= वह सारंग है 


सारंगः अधुना ममैव पार्श्वे उपविष्टः अस्ति।

= सारंग अभी मेरे ही पास बैठा है 


सः माम् न जानाति ।

= वह मुझे नहीं जानता है 


अहं तं न जानामि ।

= मैं उसको नहीं जानता हूँ ।


सः मन्दस्वरेण संगीतं श्रृण्वन् अस्ति ।

= वह धीमे स्वर में संगीत सुन रहा है 


सः नेत्रे निमील्य संगीतं श्रृणोति ।

= वह आँखें बन्द कर के संगीत सुनता है 


तस्य मुखे स्मितं पश्यामि ।

= उसके चेहरे पर स्मित देख रहा हूँ 


वस्तुतः सः शास्त्रीयं रागं श्रृण्वन् अस्ति 

= वास्तव में वह शास्त्रीय संगीत सुन रहा है

----------


एषा श्रमिणी अस्ति। 

= यह श्रमिणी है। 


कृषिक्षेत्रे एषा श्रमं करोति। 

= यह खेत में श्रम करती है। 


सर्वासु ऋतुषु एषा कार्यं करोति। 

= सभी ऋतुओं में यह काम करती है।


एषा उटजे निवसति। 

= ये झोपड़ी में रहती है। 


एतस्याः गृहे अधिकानि साधनानि न सन्ति।

= इसके घर अधिक साधन नहीं हैं। 


तथापि एषा कार्यरता भवति। 

= फिर भी यह कार्यरत रहती है। 


सर्वदा हसति।

= हमेशा हँसती है। 


एतस्याः मुखे विषादः न दृश्यते। 

= इसके चेहरे पर विषाद नहीं दिखता है।


साधारणानि वस्त्राणि धारयति तथापि प्रसन्ना अस्ति।

= साधारण वस्त्र पहनती है फिर भी प्रसन्न है। 


श्रृंगारं विना अपि सुन्दरी दृश्यते।

= श्रृंगार के बिना भी सुंदर दिख रही है। 


मृत्तिकायां कार्यं करोति एषा।

= ये मिट्टी में काम करती है।


एषा महिला कदापि चिन्तां न करोति।

= ये महिला कभी भी चिंता नहीं करती है।

संस्कृत वाक्याभ्यासः  

~~~~~~~~~~~~~~~ 


रावणः तु विद्वान् आसीत् ।

= रावण तो विद्वान् था ।


रावणः वेदज्ञः आसीत् ।

= रावण वेदज्ञ था ।


रावणः दर्शनाचार्यः आसीत् ।

= रावण दर्शनाचार्य था 


तथापि श्रीरामः रावणं किमर्थं मारितवान् ? 

= फिर भी श्रीराम ने रावण को क्यों मारा ? 


रावणः राक्षसान् पोषयति स्म ।

= रावण राक्षसों को पोषित करता था 


रावणः अहंकारी आसीत् ।

= रावण अहंकारी था 


प्रतिदिनं रावणस्य अहंकारः वर्धते स्म ।

= हररोज रावण का अहंकार बढ़ रहा था 


अहंकारस्य कारणात् सः निर्दोषान् अपि मारयति स्म ।

= अहंकार के कारण वह निर्दोषों को भी मारता था 


रावणः विद्यायाः दुरूपयोगं करोति स्म।

= रावण विद्या का दुरुपयोग करता था 


अतः तस्य हननम् आवश्यकम् आसीत् ।

= इसलिये उसका हनन आवश्यक था 


अधुना तु रावण-सदृशाः तु अनेके दृश्यन्ते ।

= अब तो रावण के जैसे अनेक दीखते हैं । 


१०१०१०१०१०१०१०१०१०१०१० 


विजयादशमी पर्वणः सर्वेभ्यः कोटिशः मंगलकामनाः ।


१०१०१०१०१०१०१०१०१०१०१०

----------


क -  मम द्वे कार्ये अवशिष्टे ।

    = मेरे दो काम रह गए। 


अ - अहं तु सर्वाणि कार्याणि कृतवान्। 

    = मैंने तो सारे काम कर दिये। 


क -  भवतः अभवन् , मम द्वे अवशिष्टे।

     = आपके हो गए , मेरे दो रह गए। 


अ - के द्वे कार्ये ? 

    = कौनसे दो काम ? 


क - वित्तकोषतः मम लेखापुस्तकम् आनेतव्यम् अस्ति। 

    = बैंक से मेरी पासबुक लानी है। 


अ - द्वितीयं कार्यं किम् ? 

    = दूसरा काम क्या है ? 


क - सीवकस्य पार्श्वे मम वस्त्राणि सन्ति। 

    = दर्जी के पास मेरे वस्त्र हैं। 


अ - वस्त्राणि सिद्धानि सन्ति वा ?, 

    = वस्त्र तैयार हैं क्या ? 


क - आम् , सिद्धानि सन्ति। 

    = हाँ , तैयार हैं ।


     - सायंकाले तानि आनेष्यामि। 

     = शाम को वो लाऊँगा ।

-----

सा भगिनी मार्गे प्रतिदिनं मिलति । 

= वह बहन हररोज रास्ते में मिलती है 


मां दृष्ट्वा हसति । 

= मुझे देखकर हँसती है 


अहं स्कूटरयाने भवामि । 

= मैं स्कूटर पर होता हूँ । 


सा पादाभ्यां चलमाना भवति 

= वह पैदल चल रही  होती  है । 


अद्य सा मार्गे स्थितवती । 

= आज वह रास्ते में रुक गई 


सा उक्तवती । 

= वह बोली 


" भवान् स्मरति वा ? " 

= आपको याद है ? 


" दश वर्षेभ्यः पूर्वं मम पुत्रस्य यज्ञोपवीतं भवान् एव कारितवान् " 

= दस वर्ष पहले मेरे बेटे का यज्ञोपवीत आपने कराया था 


" सः अधुना वित्तकोषे अधिकारी अस्ति। " 

= वह अब बैंक में ऑफिसर है 


तस्याः वार्तां श्रुत्वा अहं बहु प्रसन्न: अभवम् । 

= उसकी बात सुनकर मैं बहुत खुश हुआ ।

-----

सः रणाध्यक्षः आसीत् ।

= वो फील्ड मार्शल थे। 


सः वायुसेनाध्यक्षः आसीत् ।

= वो वायुसेना के अध्यक्ष थे। 


तस्य नाम अर्जनसिंहः आसीत् ।

= उनका नाम अर्जनसिंह था। 


तस्य जन्म ल्यालपूरे अभवत् (अभूत् ) 

= उनका जन्म ल्यालपुर में हुआ था । 


द्वितीयविश्वयुद्धे सः बर्मायां शौर्यप्रदर्शम् अकरोत्।

= दूसरे विश्वयुद्ध में उन्होंने शौर्यप्रदर्शन किया था। 


पाकिस्तान विरुद्धे जाते युद्धे अपि सः अदम्यं साहसं प्रदर्शितवान्। 

= पाकिस्तान के विरुद्ध हुए युद्ध में भी उन्होंने अदम्य साहस दिखाया था। 


पाकिस्तानस्य वायुपट्टिकाः ध्वंसितवान् सः। 

= पाकिस्तान की एयर फील्ड्स को नष्ट कर दिया था। 


अतएव सः समराङ्गणाध्यक्षः अभूत्। 

= इसीलिये वे फील्ड मार्शल बने। 


सः पञ्चतारक-श्रेण्याः सेनाधिकारी आसीत्। 

= वो फाइव स्टार रैंक के ऑफिसर थे। 


सः विदेशेषु राजदूतपदे अपि कार्यं कृतवान्। 

= उन्होंने विदेश में भी एम्बेसेडर के तौर पर काम किया। 


गतदिने सः दिवंगतः जातः। 

= कल वे दिवंगत हो गए। 

वयं सर्वे दिवंगतस्य आत्मनः शान्त्यर्थं प्रार्थयामहे। 

= हम सभी दिवंगत आत्मा की शान्ति के लिये प्रार्थना करते हैं।



--- अखिलेश आचार्य


संस्कृत वाक्य अभ्यास - 50 Click Here




एक टिप्पणी भेजें

0 टिप्पणियाँ