स्वागतम्

 आइए सरल विधि से संस्कृत में बात करना सीखें । यहाँ 👇🏻 क्लिक किजिए और प्रतिदिन क्रमशः एक एक पाठ का अभ्यास किजिए 👇🏻

Click here क्लिक क्लिक 



76) संस्कृत वाक्य अभ्यास

संस्कृत वाक्य अभ्यास

Sanskrit sentence study

एकं दृश्यं पश्यामि ।
= एक दृश्य देख रहा हूँ। 

एका माता पात्राणि प्रक्षालयति ।
( प्रक्षालयन्ती  अस्ति ) 
= एक माँ बर्तन धो रही है। 

तस्याः पुत्रः ( लघु बालकः ) वदति
= उसका बेटा ( छोटा बच्चा ) बोलता है 

"अम्ब ! एतद् अहं ...... " 
= माँ , ये मैं ...... 

माता -  नैव , पात्रं पतिष्यति ।
         = नहीं बर्तन गिर जाएगा । 

बालकः - न ... न .... अहम् .....
         = न .... न ..... मैं ....

माता - न मन्यसे त्वम् ।
        = नहीं मानते हो तुम ।

बालकः - अहं करोमि 
         = मैं करता हूँ ।

माता  -  अत्र  स्थापय .. 
         = यहाँ रख दो ... 

तदानीमेव = उसी समय 

ठन.... न... न ....न... न.... न 

पात्रं पतति ।
= बर्तन गिरता है । 

माता तं बालकं दृष्ट्वा हसति ।
= माँ उस बच्चे को देख कर हँसती है। 

बालकः रोदिति।
= बालक रोता है ।

ऊँ.... ऊँ.... ऊँ... ऊँ... 

पात्रं पतितम् ...... पात्रं पतितम् 
= बर्तन गिर गया .... बर्तन गिर गया 

माता तं बालकम् आलिंगयति 
= माँ उस बच्चे को आलिंगन करती है।।


प्रायः सर्वेषां गृहे कारयानम् अस्ति। 
= प्रायः सबके घर कार है। 

दुग्धम् आनेतुं कारयानेन गच्छन्ति। 
= दूध लाने के लिये कार से जाते हैं। 

शाकम् आनेतुं कारयानेन गच्छन्ति। 
= सब्जी लाने के लिये कार से जाते हैं।  

बालकेन सह उद्यानम् अपि  कारयानेन गच्छन्ति। 
= बच्चे के साथ बगीचे भी  कार से जाते हैं।  

सर्वे कारयानेन गमनागमनं कुर्वन्ति अतः मार्गे अन्तरायः भवति। 
= सभी कार से आना-जाना करते हैं अतः मार्ग में रुकावट आती है। 

आरक्षकः अन्तरायविमोचनं कारयति। 
= पुलिस ट्राफिक जाम को दूर कराती है। 

पादाभ्यां चलामः चेत् मार्गे अन्तरायः न भवति। 
= पैदल चलते हैं तो मार्ग में जाम नहीं होता। 

कार्यम् अपि शीघ्रं भवति। 
= काम भी जल्दी होता है। 

परमावश्यकं कार्यं करणाय कारयानेन गन्तव्यम्। 
= परमावश्यक कार्य करने के लिये कार से जाना चाहिये। 

दूरं गन्तुम् अपि कारयानं योग्यम् ।
= दूर जाने के लिये भी कार योग्य है।

अन्यथा द्विचक्रीयानेन गन्तव्यम् ।
= अन्यथा दुपहिये वाहन से जाना चाहिये।

ह्यः रात्रौ लोकयाने आसम् ।
= कल रात बस में था। 

राज्यपरिवहन-निगमस्य लोकयानम् आसीत्। 
= राज्य परिवहन निगम की बस थी। 

लोकयाने सप्तविंशतिः जनाः आसन्। 
= बस में सत्ताईस लोग थे। 

मम पुरतः षोडश जनाः आसन्। 
= मेरे आगे सोलह लोग थे।

मम पृष्ठतः अष्ट जनाः आसन्। 
= मेरे पीछे नौ लोग थे। 

मया सह द्वौ जनौ आस्ताम् । 
= मेरे साथ दो जन थे ।  

मां सम्मेल्य सप्तविंशतिः जनाः आसन्। 
= मुझे मिलाकर सत्ताईस लोग थे। 

चालकः यानं चालयति स्म।
= ड्राइवर वाहन चला रहा था। 

परिचालकः यात्रापत्रं ( चिटिकां)  ददाति स्म।  
= कंडक्टर टिकट दे रहा था। 

यात्रिभ्यः शुल्कं स्वीकरोति स्म। 
= यात्रियों से शुल्क ले रहा था।  

मार्गे कोsपि अवतरितुम् इच्छति तदा यानं स्थगयति स्म। 
= रास्ते में कोई उतरना चाहे तो वाहन रोकता था। 

मार्गे नूतनाः यात्रिणः आरोहन्ति स्म। 
= रास्ते में नए यात्री चढ़ रहे थे।

सर्वे इच्छन्ति स्म ।
= सब चाहते थे । 

सर्वे किम् इच्छन्ति स्म ? 
= सब क्या चाहते थे ? 

सर्वे तमेव / तामेव इच्छन्ति स्म ।
= सब उसी को चाहते थे । 

सर्वे तम् / ताम् किमर्थम् इच्छन्ति स्म ? 
= सब उसको क्यों चाहते थे ? 

यतोहि सः  श्रेष्ठः  प्रशासकः अस्ति ।
= क्योंकि वह श्रेष्ठ प्रशासक है ।

यतोहि सा श्रेष्ठा प्रशासिका अस्ति ।
= क्योंकि वह श्रेष्ठा प्रशासिका है ।

सः / सा प्रदेशस्य विकासार्थं कार्यं करोति । 
= वह प्रदेश के विकास के लिये काम करता / करती है । 

तस्य / तस्याः शासनकाले भ्रष्टाचारः न भवति ।
= उसके शासनकाल में भ्रष्टाचार नहीं होता है ।

संस्कृत वाक्य अभ्यासः  
~~~~~~~~~~~~~~ 

सा अर्चना अस्ति ।
= वह अर्चना है । 

अर्चना सिलीगुड़ीतः अत्र आगतवती ।
= अर्चना सिलीगुड़ी से यहाँ आई है ।

अत्र धोरावीरा-ग्रामे सा पठति ।
= यहाँ धोरावीरा गाँव में वह पढ़ती है 

धोरावीरा पुरातात्विकं स्थलम् अस्ति ।
= धोरावीरा पुरातात्विक स्थान है । 

कच्छ-जनपदे स्थितम् अस्ति ।
= कच्छ जिले में स्थित है ।

अर्चना बंगला-भाषायाम् एव वदति।
= अर्चना बंगला भाषा में ही बोलती है । 

सा अत्र पुरातात्विकम् अध्ययनं करोति ।
= वो यहाँ पुरातात्विक अध्ययन करती है ।

सा मम संस्कृतसंवादं श्रृणोति 
= वह मेरा संस्कृत संवाद सुनती है ।

अर्चना संस्कृतं श्रुत्वा प्रसन्ना भवति।
= अर्चना संस्कृत सुनकर खुश होती है ।

सा बंगला-भाषायां "भालो भालो " इति वदति ।
= वह बंगाली भाषा में  भालो भालो बोलती है ।

एकः सैनिकः मम मित्रम् अस्ति। 
= एक सैनिक मेरा मित्र है। 

अनेके सैनिकाः मम मित्राणि सन्ति। 
= अनेक सैनिक मेरे मित्र हैं। 

सर्वे सैनिकाः अस्माकं मित्राणि सन्ति। 
= सभी सैनिक हमारे मित्र हैं। 

अद्य अहं सैन्याधिकारिणः गृहं गतवान्। 
= आज मैं सैन्य अधिकारी के घर गया। 

सेनाधिकारी गृहे न आसीत्। 
= सेनाधिकारी घर पर नहीं था। 

तस्य भार्या गृहे आसीत्। 
= उसकी पत्नी घर पे  थी। 

तस्य पुत्री दशमकक्षायाम् अस्ति। 
= उसकी पुत्री दसवीं कक्षा में है। 

अहं तां पुत्रीं संस्कृतं पाठयितुं गतवान्। 
= मैं उस बेटी को पढ़ाने गया था। 

सा सरलपद्धत्या संस्कृतं पठित्वा आनन्दम् अनुभूतवती। 
=उसने सरल पद्धति से संस्कृत पढ़ कर आनंद अनुभव किया। 

माता अपि उपविश्य संस्कृतं पठितवती। 
= माँ ने भी बैठकर संस्कृत पढ़ी। 

सा अवदत् - अहं विद्यार्थीकाले अपि एतादृशं सरलं संस्कृतं न पठितवती। 
= वह बोली - मैंने विद्यार्थीकाल में भी इतनी सरल संस्कृत नहीं पढ़ी।
संस्कृत वाक्य अभ्यासः  
~~~~~~~~~~~~~~ 

सा पुष्पा अस्ति ।
= वह पुष्पा है ।

सा गृहिणी अस्ति ।
= वह गृहिणी है । 

ह्यः सा गृहकार्यम् कुर्वती आसीत् ।
= कल वह घर का काम कर रही थी । 

भूतले जलं पतितम् आसीत् ।
= फर्श पर पानी गिरा हुआ था । 

पुष्पा जलं न दृष्टवती ।
= पुष्पा ने पानी नहीं देखा । 

पुष्पा भूमौ पतितवती ।
= पुष्पा भूमि पर गिर गई । 

तस्याः वामपादस्य अस्थि भग्नं जातम् 
= उसके बाएँ पैर की हड्डी टूट गई । 

अधुना सा चिकित्सालये अस्ति ।
= अभी वह अस्पताल में है । 

अहं तां द्रष्टुम् अगच्छम् ।
= मैं उसको देखने गया था । 

बाल्यकाले सा मया सह पठति स्म ।
= बचपन में वह मेरे साथ पढ़ती थी ।


ह्यः मम भार्या मह्यं कार्याणि दत्तवती। 
= कल मेरी पत्नी ने मुझे काम दिये।

सा उक्तवती 
= उसने कहा 

शक्यम् अस्ति चेत् आपणात् सेवफलम् आनयतु।
= सम्भव हो तो बाजार से सेव लाईयेगा। 

शक्यम् अस्ति चेत्  सायं शीघ्रम् आगच्छतु।
= हो सके तो आज शाम शीघ्र आएँगे। 

शक्यम् अस्ति चेत् अद्य शीघ्रं भोजनं करोतु। 
= सम्भव हो तो आज जल्दी भोजन करिये। 

शक्यम् अस्ति चेत्  अवकरं बहिः क्षिपतु। 
= हो सके तो कूड़ा बाहर फेंक दीजिये। 

शक्यम् अस्ति चेत्  मम शिशिरवस्त्राणि उपरि स्थापयातु 
= हो सके तो मेरे जाड़े के वस्त्र ऊपर रख दीजिये

सा यत्किमपि कार्यं दत्तवती तत् सर्वं शक्यम् आसीत्। 
= उसने जो भी काम दिया वो सब सम्भव था

अहं तस्याः सर्वाणि कार्याणि कृतवान्। 
= मैंने उसके सारे काम कर दिये। 

भार्यायाः कार्याणि तु करणीयानि एव।
= पत्नी के काम तो करने ही चाहिये।

😀😃😀😃😀😃

संस्कृत वाक्य अभ्यासः  
~~~~~~~~~~~~~~~

मम पूर्वजाः ऋषयः आसन्।
= मेरे पूर्वज ऋषि थे । 

तव पूर्वजाः अपि ऋषयः आसन्।
= तुम्हारे पूर्वज भी ऋषि थे । 

अस्माकं सर्वेषां पूर्वजाः ऋषयः आसन् ।
= हमारे सबके पुर्वज ऋषि थे । 

ते वेदज्ञा: आसन् ।
= वे वेदज्ञ थे ।

ते तपस्विनः आसन् ।
= वे तपस्वी थे । 

ते ज्ञानिनः आसन् ।
= वे ज्ञानी थे । 

ते सर्वे महान्तः आसन् ।
= वे सभी महान् थे ।

पूर्वजेषु ऋषिकाः अपि आसन् ।
= पूर्वजों में  ऋषिकाएँ भी थीं । 

ऋषिकाः अपि विदुष्यः आसन् ।
= ऋषिकाएँ भी विदुषी थीं ।

सर्वेभ्यः पूर्वजेभ्यः सादरं वन्दनानि ।
= सभी पूर्वजों को सादर वन्दन ।


मम गृहे बिल्ववृक्षः अस्ति। 
= मेरे घर बेल का पेड़ है । 

बिल्ववृक्षात् सर्वाणि पर्णानि पतितानि।
= बेल के पेड़ से सारे पत्ते गिर गए हैं ।

वृक्षः शुष्कः दृश्यते।
= पेड़ सूखा दिखता है। 

केवलं शाखाः एव दृश्यन्ते ।
= केवल डालियाँ दिखती हैं।

अधुना नूतनानि पर्णानि स्फुटन्ति।
= अब नए पत्ते उग रहे हैं। 

बिल्वफलं न रोहति
= बेल फल नहीं उगता है। 

बिल्वफलानि न रोहन्ति।
= बेल फल नहीं उगते हैं। 

अधुना वृक्षः लघु: अस्ति। 
= अभी पेड़ छोटा है। 

बहु उन्नतः नास्ति। 
= बहुत ऊँचा नहीं है।

बिल्वफलं मह्यं रोचते। 
= बेल फल मुझे पसंद है।


सर्वत्र भोजनालयाः दृश्यन्ते। 
= सब जगह भोजनालय दिखते हैं। 

अनेके जनाः गृहे भोजनं न कुर्वन्ति। 
= अनेक लोग घर में भोजन नहीं करते हैं। 

सायंकाले खाद्यशकटेषु सम्मर्दः भवति। 
= शाम को खाने की लारियों पर भीड़ होती है। 

विविधानि व्यंजनानि लभ्यन्ते। 
= विविध व्यंजन मिलते हैं। 

रात्रौ भोजनालयेषु अपि जनाः भोजनं कुर्वन्ति। 
= रात में भोजनालयों में भी लोग भोजन करते हैं। 

भोज्य-व्यंजनानां आवलिपत्रं दीयते। 
= खाने के व्यंजनों का मेनू दिया जाता है।

आहारिकां दृष्ट्वा जनाः व्यजनस्य चिन्वन्ति।
= मेनू देखकर लोग व्यजन चुनते हैं।

भोजनस्य प्रतीक्षा करणीया भवति। 
= भोजन की प्रतीक्षा करनी पड़ती है। 

किञ्चित् काल अनन्तरं परिवेषकः स्थालिकां स्थापयति। 
= थोड़ी देर बाद वेटर थाली रखता है।

अनन्तरं परिवेषकः भोजनम् आनयति। 
=  बाद में वेटर भोजन लाता है।

अनन्तरं जनाः भोजनं कुर्वन्ति। 
= बाद में लोग भोजन करते हैं। 

जनाः भोजनं कृत्वा भोजनस्य शुल्कं ददति। 
= लोग भोजन करके भोजन का शुल्क देते हैं।


--- अखिलेश आचार्य

एक टिप्पणी भेजें

0 टिप्पणियाँ