स्वागतम्

 आइए सरल विधि से संस्कृत में बात करना सीखें । यहाँ 👇🏻 क्लिक किजिए और प्रतिदिन क्रमशः एक एक पाठ का अभ्यास किजिए 👇🏻

Click here क्लिक क्लिक 



81) संस्कृत वाक्य अभ्यास

संस्कृत वाक्य अभ्यास
Sanskrit Sentence Study




सः पुस्तकविक्रेता अस्ति। 
= वह पुस्तक विक्रेता है। 

सः पुस्तकानि विक्रीणाति। 
= वह पुस्तकें बेंचता है 

तस्य आपणे नूतनानि पुस्तकानि अपि सन्ति। 
= उसकी दूकान में नई पुस्तकें भी हैं 

पुरातनानि पुस्तकानि अपि सन्ति।
= पुरानी पुस्तकें भी हैं 

अपि च सः पुरातनानि पुस्तकानि प्रतिगृह्णाति 
= वह पुरानी पुस्तकें वापस भी लेता है

पुरातनानां पुस्तकानां सः मूल्यं प्रत्यर्पयति।
= पुरानी पुस्तकों का वह मूल्य लौटाता है। 

यदा कोsपि ग्राहकः न आगच्छति.... 
= जब कोई ग्राहक नहीं आता .... 

.... तदा सः पुस्तकं पठति। 
= ..... तब वह पुस्तक पढ़ता है 

सः छात्रेभ्यः परामर्शम् अपि ददाति।
= वह छात्रों को सलाह भी देता है। 

छात्राः तस्य परामर्शानुसारमेव पुस्तकं (पुस्तकानि ) क्रीणन्ति। 
= छात्र उसकी सलाह के अनुसार पुस्तक (पुस्तकें) खरीदते हैं।


आज का अभ्यास
तरणतालः  = स्वीमिंग पूल 

मम नगरे तरणतालस्य उद्घाटनम् अस्ति।
= मेरे शहर में स्वीमिंग पूल का उद्घाटन है।

तरणताले अहं यज्ञं कारयामि।
= स्वीमिंग पूल में मैं यज्ञ करा रहा हूँ।


*संस्कृतवाक्याभ्यासः* 

अधुना कोsपि संवादं न करोति।
= आजकल कोई संवाद नहीं करता है। 

सर्वे गृहे एव पिहिताः सन्ति। 
= सभी घरों में बंद हैं। 

प्रातः सप्तवादनतः द्वादशवादन पर्यन्तं सर्वे बहिः दृश्यन्ते।
= सुबह सात बजे से बारह बजे तक सभी बाहर दिखते हैं। 

शाकं क्रेतुं , अन्नं क्रेतुं जनाः गृहात्  बहिः निर्गच्छन्ति।
= सब्जी खरीदने , अनाज खरीदने के लिये लोग घर से बाहर निकलते हैं। 

अन्यथा मार्गाः जनशून्याः दृश्यन्ते। 
= अन्यथा मार्ग सुनसान दिखते हैं। 

जनाः गृहे एव भोजनं कुर्वन्ति।
= लोग घर में ही भोजन कर रहे हैं। 

अतएव तेषां स्वास्थ्यं सम्यक् अस्ति।
= इसलिये उनका स्वास्थ्य अच्छा है।

जनाः अधिकं तिक्तं न खादन्ति।
= लोग अधिक तीखा नहीं खा रहे हैं। 

सर्वे परिवारजनाः एकसाकं भोजनं कुर्वन्ति।
= सभी परिवार जन एक साथ भोजन करते हैं।

"पतिः गृहकार्यं करोति" एषा  सूचना सर्वतः आगच्छति।
= पति काम करता है यह सूचना सब जगह से आ रही है। 

अनेके जनाः संस्कृतस्य अभ्यासम् अपि कुर्वन्ति।
= अनेक लोग संस्कृत का अभ्यास भी करते हैं।

*सरलानि वाक्यानि प्रतिदिनं वदन्तु* 
*सरल वाक्य प्रतिदिन बोलें*


योगिता - अद्य सर्वे माम् आहूतवन्तः । 
          = आज सबने मुझे बुलाया । 

दीपिका - आं मामपि सर्वे आहूतवन्तः।
          = हाँ मुझे भी सबने बुलाया। 

योगिता - किमर्थं भोः ? 
          = क्यों जी ? 

दीपिका - अद्य चैत्र नवरात्र्याः *आठम* अस्ति। 
          = आज चैत्र नवरात्रि की *आठम* है।

योगिता - ओह .... आठम न , अष्टमी उच्च्यते। 
          = ओह ... आठम नहीं , अष्टमी कहते हैं।

दीपिका - एवं वा ?? अद्य अष्टमी तिथिः अस्ति। 
           = ऐसा क्या ?? आज अष्टमी तिथि है। 

योगिता - आम् ,  जनाः कन्याः आह्वयन्ति। 
          = हाँ , लोग कन्याओं को बुलाते हैं। 

          - कन्यानाम् सम्मानं कुर्वन्ति। 
          = कन्याओं का सम्मान करते हैं । 

दीपिका - भोजनं खादयन्ति। 
           = भोजन खिलाते हैं। 

योगिता - कन्याभ्यः पारितोषिकं यच्छन्ति। 
          = कन्याओं को भेंट देते हैं। 

दीपिका - अस्माकं समाजे पुत्रीभ्यः  बहु आदरः दीयते। 
          = हमारे समाज में पुत्रियों को बहुत आदर दिया जाता है। 

योगिता - आं ... वयमपि आदरोचितं कार्यं करिष्यामः। 
          = हाँ ... हम भी आदर के योग्य काम करेंगे।


सः भूमिं क्रीतवान् । 
= उसने भूमि खरीदी। 

अधुना सः भाटकं दत्वा निवसति। 
= अभी वह किराया देकर रहता है। 

भाटकगृहे सः प्रसन्नः नास्ति। 
= किराये के घर पर वह खुश नहीं है। 

अतएव तेन भूमिः क्रीता। 
= इसलिये उसने भूमि खरीदी। 

भूमौ सः गृहं निर्मास्यति 
= भूमि पर वह घर बनाएगा। 

बृहद् गृहं न निर्मास्यति। 
= बड़ा घर नहीं बनाएगा। 

सः ऐश्वर्यमयं गृहं न निर्मास्यति। 
= वह वैभवशाली घर नहीं बनाएगा। 

अपितु सः सुविधापूर्णं गृहं निर्मास्यति। 
= जबकि वह सुविधापूर्ण घर बनाएगा। 

तस्य मातापितरौ अपि तेन सह निवसतः
= उसके माता पिता भी उसके साथ रहते हैं।  

पिता अधुना निवृत्तः अस्ति। 
= पिता अभी निवृत्त हैं 

सः परिसरस्य बालकान् पाठयति। 
= वह परिसर के बच्चों को पढ़ाते हैं

माता गृहकार्यं करोति। 
= माँ घर का काम करती हैं 

तस्य भार्या शिक्षिका अस्ति। 
= उसकी पत्नी शिक्षिका है। 

सः चिकित्सासेवकः अस्ति। 
= वह कम्पाउन्डर है ।

तस्मै मम शुभकामनाः ।
= उसे मेरी शुभकामनाएँ ।


 सः ग्रन्थपालः अस्ति।
= वह लाइब्रेरियन है। 

पुस्तकालये सः पुस्तकानि संरक्षति।
= पुस्तकालय में वह पुस्तकों की रक्षा करता है।

विश्वविद्यालयस्य परिसरे पुस्तकलायः वर्तते ।
= विश्वविद्यालय के परिसर में पुस्तकालय है ।

पुस्तकालये सहस्राधिकानि पुस्तकानि सन्ति।
= पुस्तकालय में हजार से अधिक पुस्तकें हैं। 

विविधानां विषयाणां पुस्तकानि सन्ति।
= विविध विषयों की पुस्तकें हैं। 

ग्रन्थपालः विषयानुसारं पुस्तकानि स्थापयति।
= ग्रन्थपाल विषय अनुसार पुस्तकें रखता है।

पुरातनानि पुस्तकानि अपि सन्ति।
= पुरानी पुस्तकें भी हैं।

तेषाम् उपरि आवरणं योजयति।
= उनके ऊपर आवरण लगाता है।

यः कोsपि यत्किमपि पुस्तकं याचते।
= कोई भी व्यक्ति जिस भी पुस्तक को माँगता है।

सः ग्रन्थपालः तस्मै तद् पुस्तकं ददाति ।
= वह ग्रन्थपाल उसे वो पुस्तक देता है। 

पंजीयनपुस्तके सः विवरणं लिखति।
= रजिस्टर में वह सारा विवरण लिखता है। 

पुस्तकालये सर्वे शान्तभावेन पुस्तकानि पठन्ति।
= पुस्तकालय में सभी शान्त भाव से पुस्तक पढ़ते हैं


सभागारे सर्वे कार्यकर्तारः सम्मिलिताः अभवन्। 
= सभागार में सभी कार्यकर्ता मिले ।

उत्पीठिकायां दीपं स्थापितवन्तः। 
= टेबल पर दीप रखा। 

श्रोतारः स्थाने उपविष्टवन्तः । 
= श्रोता जगह पर बैठ गए। 

अनन्तरम् अतिथयः आगतवन्तः। 
= बाद में अतिथि आए। 

सर्वे अतिथयः दीपं प्रज्ज्वालितवन्तः। 
= सभी अतिथियों  ने दीप प्रकट किया। 

अनन्तरम् .......  

पीयूषः श्रीरामचन्द्रस्य विषये व्यख्यानं दत्तवान्। 
= पीयूष ने श्रीरामचंद्र के विषय पर व्यख्यान दिया। 

सः श्रीरामस्तोत्रम् अपि पठितवान्। 
= उसने श्रीरामस्तोत्र भी पढ़ा। 

अनन्तरं प्रेमलता कौरः वैशाखी विषये व्याख्यानं दत्तवती। 
= बाद में प्रेमलता कौर ने वैशाखी के बारे में व्याख्यान दिया। 

सा एकं पंजाबीगीतम् अपि गीतवती। 
= उसने एक पंजाबी गाना भी गाया। 

अनन्तरं पूर्णा भगिनी उत्थितवती। 
= उसके बाद पूर्णा बहन खड़ी हुई ।

पूर्णा विशुपर्वणः माहात्म्यम् उक्तवती। 
= पूर्णा ने विशु पर्व का माहात्म्य कहा। 

सा एकं तमिळगीतं, एकं मलयालीगीतं च गीतवती।
= उसने एक तमिळगीत और एक मलयाली गीत गाया।

अनन्तरं हीरजीभ्राता उत्थितवान्। 
= बाद में हीरजीभाई खड़े हुए। 

हीरजीभ्राता बाबासाहेब अम्बेडकरस्य जीवनदर्शनं बोधितवान्। 
= हीरजीभाई ने बाबासाहेब अम्बेडकर का जीवनदर्शन समझाया। 

सर्वे संस्कृतकार्यकर्तारः एकस्मिन्नेव सभागारे सर्वाणि पर्वाणि आचरितवन्तः। 
= सभी संस्कृतकार्यकर्ताओं ने एक ही सभागार में सारे पर्व मना लिये।


संस्कृत वाक्य अभ्यासः  
~~~~~~~~~~~~~~ 

सः बालकम् स्व  अड्ंके नयति । 
= वह बच्चे को अपनी गोदी में लेता है 

सः बालकम् स्व अड्ंके उन्नयति । 
= वह बच्चे को अपनी गोदी में उठाता  है 

यदाकदा सः स्कन्धे अपि उन्नयति । 
= कभी कभी वह कन्धे पर भी उठाता है 

सः बालकम् उच्छालयति अपि ।
= वह बालक को उछालता भी है 

सः बालकं चुम्बति 
 = बच्चे को चूमता है । 

सर्वे जनाः तं पश्यन्ति । 
= सभी लोग उसको देखते हैं 

एकः वृद्धः तम् अवरोधयति । 
= एक वृद्ध उसको रोकता है 

बालकं मा उच्छालय ... मा उच्छालय । 
= बच्चे को मत उछालो ... मत उछालो 

बालकः पतिष्यति .... 
= बच्चा गिर जाएगा .... 

सः अमन्यत 
= वह मान गया

अहं तस्य गृहं गतवान् ।
= मैं उसके घर गया।

मुख्य द्वारम् उद्घाटितम् आसीत् ।
= मुख्य द्वार खुला था ।

अहम् अन्तः प्रविष्टः ।
= मैं अन्दर गया। 

गृहाङ्गण पर्यन्तम् आगतवान्। 
= घर के आँगन तक आ गया। 

तत्र कोs पि न आसीत् ।
= वहाँ कोई नहीं था 

स्वागतकक्षस्य द्वारम् अपि उद्घाटितम् आसीत् ।
= हॉल का भी दरवाजा खुला था 

अहम् अन्तः प्रविष्टः ।
= मैं अन्दर चला गया। 

तत्र त्रयः प्रकोष्ठा: आसन् ।
= वहाँ तीन कमरे थे। 

सर्वेषां प्रकोष्ठानां द्वाराणि उद्घाटितानि आसन्। 
= सभी कमरों के दरवाजे खुले थे। 

अहं सर्वान् प्रकोष्ठान् प्रविष्टवान् ।
= मैं सभी कमरों में घुसा।

ओह , एषः अत्र अस्ति।
= ओह , ये यहाँ है ।

सः ध्यानमग्नः अस्ति ।
= वह ध्यानमग्न है ।

श् ....श्... शान्तिः 

सः ध्यानं करोति।।
= वह ध्यान कर रहा है ।

अहम् अपि शान्तः भवामि
= मैं भी शान्त हो जाता हूँ।


धनञ्जयः अधुना हरिद्वारे अस्ति। 
= धनंजय इस समय हरिद्वार में है। 

सः परिवारजनैः सह हरिद्वारं गतवान् अस्ति। 
= वह परिवारजनों के साथ हरिद्वार गया है। 

अद्य प्रातः सः गङ्गानद्यां स्नानं कृतवान्। 
= आज प्रातः उसने गङ्गा नदी में स्नान किया। 

परिवारस्य सर्वे जनाः स्नानं कृतवन्तः। 
= परिवार के सभी लोगों ने स्नान किया। 

अधुना सः ज्वालापुरं गच्छति। 
= अभी वह ज्वालापुर जा रहा है। 
( ते गच्छन्ति - वे जा रहे हैं ) 

जवालापुरे सः यज्ञं करिष्यति। 
= जवालापुर में वह यज्ञ करेगा। 
( ते करिष्यन्ति - वे करेंगे )  

जवालापुरतः सः ऋषिकेशं गमिष्यति। 
= जवालापुर से वह ऋषिकेश जाएगा। 
( ते गमिष्यन्ति - वे जाएँगे )

धनञ्जयः ऋषिकेशे स्वामिनः प्रवचनं श्रोष्यति। 
= धनंजय ऋषिकेश में स्वामी जी का प्रवचन सुनेगा। 

परिवारस्य सर्वे जनाः प्रवचनं श्रोष्यन्ति। 
= परिवार के सभी लोग प्रवचन सुनेंगे। 

सः त्रीणि दिनानि पर्यन्तं हरिद्वारे स्थास्यति। 
= वह तीन दिन तक हरिद्वार में रुकेगा। 
( ते स्थास्यन्ति - वे रुकेंगे )

अद्य सः अनशनं करिष्यति। 
= आज वह अनशन करेगा। 

अन+अशनम् = भोजन न करना 

सः सत्यमेव किमपि न खादिष्यति। 
= वह सचमुच में कुछ नहीं खाएगा। 

आदिनं आहारं विना एव यापयिष्यति।
= पूरा दिन आहार बिना के बिताएगा। 

उपवासकाले अपि सः कार्यं तु करिष्यति एव। 
= उपवास के समय भी वह काम तो करेगा ही। 

केचन जनाः उपवासं तु कुर्वन्ति
= कुछ लोग उपवास तो करते हैं 

मध्ये मध्ये चणकपूरिकां खादन्ति। 
= बीच बीच में छोले भटूरे खाते हैं 

रसं पिबन्ति। 
= जूस पीते हैं ।

तेषामेव उपवासस्य प्रचारः भवति। 
= उनके ही उपवास का प्रचार होता है। 

श्रद्धया उपवासः करणीयः। 
= श्रद्धा से उपवास करना चाहिये। 

अनशनस्य किमपि ध्येयं भवेत्। 
= अनशन का कोई ध्येय होना चाहिये। 

व्यर्थमेव जनान् आकर्ष्टुम् उपवासः न करणीयः । 
= बेकार में लोगों को आकर्षित करने के लिये उपवास नहीं करना चाहिये


अद्य = आज 
श्व:  = आने वाला कल 
परश्व: = आने वाला परसों 
प्रपरश्व: = आने वाला नरसों 

अद्य कुलदीपः अजमेरं गच्छति ।
= आज कुलदीप अजमेर जा रहा है

श्व: कुलदीपः झज्झरं गमिष्यति।
= कल कुलदीप झज्झर जाएगा।

परश्व: सः दीनापुरं गमिष्यति।
= परसों वह दीनापुर जाएगा। 

प्रपरश्व: सः गुरदासपुरं गमिष्यति।
= तरसों वो गुरदासपुर जाएगा। 

अद्य = आज 
ह्यः  = बीता हुआ कल 
परह्यः = बीता हुआ परसों 
प्रपरह्यः = बीता हुआ नरसों 

अद्य कुलदीपः अजमेरं गच्छति ।
= आज कुलदीप अजमेर जा रहा है

ह्यः कुलदीपः उदयपुरं गतवान् आसीत् 
= कल कुलदीप उदयपुर गया था 

परह्यः सः  शिवगंजं गतवान् आसीत् ।
= परसों वह शिवगंज गया था 

प्रपरह्यः सः आबूपर्वतं गतवान् आसीत् ।
= परसों वह आबू पर्वत गया था ।


नीरवस्य भार्या मातृगृहं गतवती अस्ति।
= नीरव की पत्नी मायके गई है। 

प्रातःकाले सः उद्याने पादपेभ्यः जलं ददाति। 
= प्रातःकाल वह उद्यान में पौधों को जल देता है। 

गोपालः दुग्धम् आनयति। 
= ग्वाला दूध लाता है। 

नीरवः दुग्धं स्वीकरोति। 
= नीरव दूध लेता है। 

नीरवः दुग्धम् ऊष्णं करोति। 
= नीरव दूध गरम करता है। 

दुग्धं पीत्वा सः कार्यालयं गच्छति। 
= दूध पीकर वह कार्यालय जाता है। 

सायंकाले सः गृहं प्रत्यागच्छति तदा गृहात् बहिः बालकाः बालिकाश्च आसन्। 
= शाम को वह घर लौटता है तब घर के बाहर बच्चे बच्चियाँ थे। 

बालकाः अपृच्छन् - "अस्माकं भगिनी कुत्र अस्ति ?"
= बच्चों ने पूछा - "हमारी दीदी कहाँ है?" 

सा अस्मान् उद्याने क्रीडयति। 
= वह हमें बगीचे में खिलाती है। 

नीरवः - "अधुना ज्ञातम्" 
         = अब पता चला 

         - उद्याने जलं दातुं सा किमर्थं सूचितवती !!! 
         = बगीचे में पानी देने के लिये उसने सूचना क्यों दी थी। 

नीरवः - भो: बालकाः! आगच्छन्तु  

सर्वे बालकाः नीरवस्य उद्याने क्रीडन्ति । 
= सभी बच्चे नीरव के बगीचे में खेलते हैं 

क्रीडासमापने ते गीतं गायन्ति। 
= खेल के समापन पर वे गीत गाते हैं 

"वयं बालकाः भारतभक्ताः......" 

नीरवः प्रसन्नः भवति , सर्वेभ्यः बालकेभ्यः शीतयष्टिं ददाति। 
= नीरव खुश होता है , सभी बच्चों को  कुल्फी देता है।



पिता - अद्य शान्तिः एव इच्छामि। 
        = आज शान्ति ही चाहता हूँ।  

         - मा बाधतन्ताम् 
         = परेशान नहीं करेंगे। 

पुत्री - नैव तात ! अद्य तु रविवासरः ।
      = नहीं पिताजी ! आज तो रविवार है। 

पुत्रः - रविवासरे एव भवान् गृहे तिष्ठति।
        = रविवार को ही आप घर पर रहते हैं

पुत्री - अहम् एकं काव्यं कंठस्थं कृतवती
       = मैंने एक कविता याद की है 

       - तद् श्रावयामि। 
       = वो सुनाती हूँ। 

पुत्रः - अहम् एकं चित्रं रचितवान्। 
        = मैंने एक चित्र बनाया है। 

        - तद् दर्शयामि। 
        = वो दिखाता हूँ। 

पुत्री -  पुत्री गायति
         अवनितलं पुनरवतीर्णा स्यात् 
         संस्कृत गङ्गाधारा  
         धीर भगीरथ वंशोsस्माकं 
         वयं तु कृतनिर्धारा 

पिता - बहु सुन्दरं गीतवती ... शोभनम् ।

पुत्रः - मम चित्रं पश्यतु 

पिता - तव चित्रं तु सुन्दरम् अस्ति

         ग्रामस्य चित्रम्  

         चित्रे तड़ागः अस्ति। 

         चित्रे पर्वतमाला अस्ति। 

         चित्रे नदी अस्ति 

          कुटीरः अस्ति 

          जनाः सन्ति। 

          बालकाः सन्ति। 

पुत्रः -पुत्री ( उभौ वदतः ) 
बेटा बेटी दोनों बोलते हैं 

अम्बा अपि आगतवती।
= माँ भी आ गई। 

अद्य आनन्दं करिष्यामः ।
= आज आनंद करेंगे। 

हो ....हो....हो...हो....


जालिका = जाली 

सर्वेषां गृहे जालिका भवति।
= सबके घर में जाली होती है। 

वातायने जालिका भवति।
= खिड़की पर जाली होती है

द्वारे अपि जालिका भवति।
= दरवाजे पर भी जाली होती है

जालिकातः धूलि: अन्तः न प्रविशति ।
= जाली से धूल अन्दर प्रवेश नहीं करती है 

मशकाः , मक्षकाः च अन्तः न आगच्छन्ति।
= मच्छर और मक्खी अंदर नहीं आते हैं 

एकः बालकः जालिकाम् उद्घाट्य बहिः पश्यति।
= एक बच्चा जाली खोल कर बाहर देखता है। 

रात्रौ जनाः मशकजाले शयनं कुर्वन्ति।
= रात में लोग मच्छरदानी में सोते हैं

अद्य मम गृहस्य जालिकाः मलिना: अभवन् ।
= आज मेरे घर की जालियाँ मैली हो गई हैं।

अहम् अद्य जालिकाः प्रक्षालयामि ।
= आज मैं जालियाँ साफ़ कर रहा हूँ।


~~~राजाओं मे राम श्रेष्ठ थे।
नृपाणां राम: श्रेष्ठ: आसीत्।

~~~मेरे मित्रों में राजेश सबसे छोटा है।
मम मित्राणां राजेश: कनिष्ठ: अस्ति।

~~~बर्तनों में ये बर्तन सबसे बड़ा है।
पात्राणां इदं पात्रं वृहत्तमम् अस्ति।

~~~ऋषियों में दुर्वासा सबसे गुस्से वाले थे।
ऋषिणां दुर्वासा क्रुद्धतम: आसीत्।

~~~भक्तिकालीन कवियों में सूरदास  सबसे प्रसिद्ध है।
भक्तिकालस्य कवीनां सूरदास: प्रसिद्धतम: अस्ति।


ह्यः अहं गोशालायां सेवां कुर्वन् आसम्।
= कल मैं गौशाला में सेवा कर रहा था। 

यानात् तृणानि अवतारयामि स्म। 
= वाहन से घास उतार रहा था। 

अहम् अधिकम् उत्साहे आसम् ।
= मैं अधिक उत्साह में था। 

अहं तृणगुच्छं बलेन कर्षितवान्।
= मैंने घास का गुच्छा बल से खींचा। 

गुच्छं तु बहिः आगतम् ।
= गुच्छा तो बाहर आ गया। 

अहं भूमौ पतितवान्। 
= मैं भूमि पर गिर गया।

तदानीमेव चिकित्सालयं गतवान्। 
= उसी समय चिकित्सालय गया। 

ह्यः आदिनम् आरात्रिः विश्रामं कृतवान्। 
= कल पूरा दिन , पूरी रात विश्राम किया।

अधुना पीड़ा काचित् न्यूना अस्ति। 
= अभी पीड़ा कुछ कम है।

दक्षिणे हस्ते पीड़ा भवति। 
दाहिने हाथ में पीड़ा है। 

संस्कृतसम्वादः न भवति चेत् सुखं न अनुभवामि। 
= संस्कृत सम्वाद नहीं होता है तो सुख अनुभव नहीं करता हूँ।ओ३म् 

ह्यः अहं गोशालायां सेवां कुर्वन् आसम्।
= कल मैं गौशाला में सेवा कर रहा था। 

यानात् तृणानि अवतारयामि स्म। 
= वाहन से घास उतार रहा था। 

अहम् अधिकम् उत्साहे आसम् ।
= मैं अधिक उत्साह में था। 

अहं तृणगुच्छं बलेन कर्षितवान्।
= मैंने घास का गुच्छा बल से खींचा। 

गुच्छं तु बहिः आगतम् ।
= गुच्छा तो बाहर आ गया। 

अहं भूमौ पतितवान्। 
= मैं भूमि पर गिर गया।

तदानीमेव चिकित्सालयं गतवान्। 
= उसी समय चिकित्सालय गया। 

ह्यः आदिनम् आरात्रिः विश्रामं कृतवान्। 
= कल पूरा दिन , पूरी रात विश्राम किया।

अधुना पीड़ा काचित् न्यूना अस्ति। 
= अभी पीड़ा कुछ कम है।

दक्षिणे हस्ते पीड़ा भवति। 
दाहिने हाथ में पीड़ा है। 

संस्कृतसम्वादः न भवति चेत् सुखं न अनुभवामि। 
= संस्कृत सम्वाद नहीं होता है तो सुख अनुभव नहीं करता हूँ।



युवकः - तव नखाः दीर्घाः अभवन्। 
          = तुम्हारे नाखून बड़े हो गए हैं। 

युवती - तव अपि नखाः दीर्घाः अभवन्। 
         = तुम्हारे भी नाखून बड़े हो गए हैं।  

युवकः - अहम् अधुना कृन्तामि।
          = मैं अभी काटता हूँ। 

          - त्वमपि कृन्ततु ।
          = तुम भी काट लो । 

युवती - न ... न ...  नैव ।

        -  अहं तु इतोsपि दीर्घान् नखान् इच्छामि। 
        = मैं और लम्बे नाखून चाहती हूँ। 

युवकः - तेन कः लाभः भविष्यति ? 
          = उससे क्या लाभ होगा ? 

          भारतस्य उन्नतिः भविष्यति वा ? 
          = भारत की उन्नति होगी क्या ? 

          आतंकवादिनः भयभीताः भविष्यन्ति वा ? 
          = आतंकवादी डर जाएँगे क्या ? 

युवती - न तथा किमपि नास्ति। 
         = नहीं ऐसा कुछ नहीं है।

         - मम सख्यः दीर्घान् नखान् स्थापयन्ति। 
         = मेरी सहेलियाँ लंबे नाखून रखती हैं। 

युवकः - अधुनैव कृन्ततु ।
          = अभी ही काट लो ।

          - न शोभन्ते । 
          = नहीं अच्छे लगते हैं

संस्कृत वाक्य अभ्यासः 
~~~~~~~~~~~~~~~~~ 

सुनीतः - पुनीत ! त्वं कुत्र असि ? 
           = पुनीत , तुम कहाँ हो ? 

पुनीतः  -  अहं वटनगरे अस्मि । 
          = मैं वडोदरा में हूँ । 

सुनीतः -  वटनगरे किं करोषि त्वम् ? 
          = वडोदरा में क्या कर रहे हो ? 

पुनीतः - वटनगरे अहं पठनार्थम् आगतो अस्मि । 
          = वडोदरा में मैं पढ़ने आया हूँ । 

सुनीतः - वटनगरे किं पठसि त्वम् ?  
         = वडोदरा में तुम क्या पढ़ते हो ? 

पुनीतः - वटनगरे अहं सौरऊर्जायाः अध्ययनं करोमि । 
          = वडोदरा में मैं सौर ऊर्जा का अध्ययन कर रहा हूँ । 

सुनीतः - सौरऊर्जा ....... तस्य अपि अध्ययनं भवति खलु ? 
         = सौर ऊर्जा ..... उसका भी अध्ययन होता है क्या ? 

पुनीतः - आम् , ऊर्जायाः सर्वे स्रोताः समाप्ताः भविष्यन्ति.... 
         = हाँ ऊर्जा के सभी स्रोत समाप्त हो जाएंगे ... 

पुनीतः - तथापि सौरऊर्जा कदापि समाप्ता न भविष्यति । 
          = फिर भी सौर ऊर्जा कभी समाप्त नहीं होगी 

सुनीतः - अहं सूर्यं वन्दे । 
          = मैं सूर्य को वन्दन करता हूँ । 

पुनीतः - अहमपि  सूर्यं वन्दे । 
          = मैं भी सूर्य को वन्दन करता हूँ ।


मार्गे शिवाभगिनी मिलितवती। 
= रास्ते में शिवा बहन मिली। 

सा द्विचक्रीयानं चालयति स्म। 
= वह स्कूटर चला रही थी। 

* सा केन सह आसीत् ? 
= वह किसके साथ थी ? 

सा पुत्रेण सह आसीत्। 
= वह पुत्र के साथ थी। 

* शिवाभगिनी कुतः आगच्छति स्म ? 
= शिवा बहन कहाँ से आ रही थी ? 

सा पुत्रं नेतुं विद्यालयं गतवती आसीत्। 
= वह पुत्र को लेने विद्यालय गई थी।

शिवाभगिनी कुत्र गच्छति स्म ? 
= शिवा बहन कहाँ जा रही थी ? 

शिवाभगिनी स्वगृहं गच्छति स्म। 
= शिवा बहन अपने घर जा रही थी। 

शिवाभगिनी मां दृष्ट्वा अवदत् - "नमो नमः" 
= शिवा बहन मुझे देखकर बोली -नमो नमः। 

" कथम् अस्ति भवान् ?" 
= कैसे हैं आप ? 

अहम् उत्तरं दत्तवान् "अहं कुशली अस्मि" 
= मैंने उत्तर दिया "मैं ठीक हूँ" 

मार्गे अपि संस्कृतसम्वादः भवति। 
= रास्ते में भी संस्कृत सम्वाद होता है।


-- अखिलेश आचार्य

एक टिप्पणी भेजें

1 टिप्पणियाँ

धन्यवाद:/thank-you

Emoji
(y)
:)
:(
hihi
:-)
:D
=D
:-d
;(
;-(
@-)
:P
:o
:>)
(o)
:p
(p)
:-s
(m)
8-)
:-t
:-b
b-(
:-#
=p~
x-)
(k)