स्वागतम्

 आइए सरल विधि से संस्कृत में बात करना सीखें । यहाँ 👇🏻 क्लिक किजिए और प्रतिदिन क्रमशः एक एक पाठ का अभ्यास किजिए 👇🏻

Click here क्लिक क्लिक 



82) संस्कृत वाक्य अभ्यास

संस्कृत वाक्य अभ्यास
Sanskrit Sentence Study

वृक्षस्य अधः वृद्धा तिष्ठति। 
= पेड़ के नीचे वृद्धा खड़ी है। 

सा स्यूतम् भूमौ स्थापयति। 
= वह थैला जमीन पर रखती है। 

करवस्त्रेण मुखं प्रौञ्छति। 
= रुमाल से मुँह पोंछती है। 

सा प्रस्वेदं प्रौञ्छति।
= वह पसीना पोंछती है। 

एका षड्वर्षीया बालिका तां वृद्धां पश्यति। 
= एक छः वर्ष की बच्ची उस वृद्धा को देखती है। 

सा बालिका विद्यालयतः गृहं गच्छति। 
= वह बच्ची विद्यालय से घर जा रही है।

बालिकायाः पार्श्वे जलम् अस्ति। 
= बच्ची के पास पानी है। 

बालिका वृद्धायै जलं ददाति। 
= बच्ची वृद्धा को पानी देती है। 

बालिका अवदत्  - "मातः ! मम पिता मां नेतुम् आगमिष्यति।"
= बच्ची बोली - माँजी ! मेरे पिताजी मुझे लेने आएँगे।

बालिका - "भवती मया सह चलतु।" 
            = आप मेरे साथ चलियेगा 

सा वृद्धा बालिकायै आशीर्वादान् ददाति। 
= वह वृद्धा बच्ची को आशीर्वाद देती है।


शीलः = शौक , रूचि , स्वभाव 

संस्कृतं मम शीलः अस्ति।
= संस्कृत मेरा शौक है ।

सङ्गीते तस्याः शीलः अस्ति। 
= संगीत में उसकी रूचि है 

पर्यटनम् चिरागस्य शीलः  अस्ति।
= पर्यटन चिराग का शौक है। 

सेवाकार्यम् अनितायाः शीलः अस्ति।
= सेवा कार्य अनिता का शौक है ।

भवतः शीलः कः अस्ति ? 

भवत्याः शीलः कः अस्ति ? 

कस्मिन् विषये भवतः / भवत्याः शीलः अस्ति ?


रात्रौ महापणं गतवान् अहम्। 
= रात बिग बाजार गया था। 

महापणं बहु विशालम् आसीत्। 
= बिग बाजार बहुत बड़ा था। 

सर्वविधानि वस्तूनि तत्र आसन्। 
= सब प्रकार की वस्तुएँ वहाँ थीं। 

विक्रयणार्थं वस्तूनि लम्बन्ते स्म।
= बेचने के लिये वस्तुएँ लटक रही थीं। 

अनेके जनाः वस्तूनि पश्यन्ति स्म। 
= अनेक लोग वस्तुएँ देख रहे थे। 

अनेके जनाः वस्तूनि क्रीणन्ति स्म। 
= अनेक लोग वस्तुएँ खरीद रहे थे। 

महापणे विद्युत्चालितानि सोपानानि आसन्। 
= बिग बाजार में विद्युत चालित सीढियाँ थीं। 

अहं तेन सोपानेन द्वितीयं अट्टं गतवान्। 
= मैं उस सीढ़ी से दूसरी मंजिल गया। 

तेनैव तृतीयं अट्टम् आरोहितवान्। 
= उसी से तीसरे तल भी गया ।

तृतीये अट्टे खाद्यव्यंजनानि मिलन्ति स्म।
= तीसरी मंजिल में खाद्य व्यंजन मिल रहे थे।

सत्यं वदानि , अहं किमपि न क्रीतवान्। 
= सच कहूँ , मैंने कुछ भी नहीं खरीदा। 

हा .... हा ... हा .... हा ...😃😀

संस्कृत वाक्याभ्यासः 
~~~~~~~~~~~~~~~ 

दिव्या - दिव्य भ्रातः , आगच्छ 
         = दिव्य भैया , आओ 

दिव्यः - कुत्र भगिनी ? 
        = कहाँ दीदी ? 

दिव्या - पाकशालाम् आगच्छ । 
        = रसोई में आ जाओ । 

दिव्यः  - आम् आगतवान् । 
        = हाँ आ गया 

दिव्या - दिव्य, अद्य मातुः स्वास्थ्यं सम्यक् नास्ति । 
        = आज माँ की तबियत ठीक नहीं है । 

        - आवां द्वौ भोजनं निर्मावः । 
        = हम दोनों खाना बनाएँ 

दिव्यः - अहं तु कीमपि न जानामि । 
        = मैं तो कुछ भी नहीं जानता हूँ 

दिव्या - तथापि मया सह उपविश । 
        = फिर भी मेरे साथ बैठो 

       - अहं यथा वदामि , तथा कुरु । 
       = जैसा मैं कहती हूँ वैसा करो  

दिव्यः - अस्तु , भगिनी ! 
       = ठीक है दीदी

सरल संस्कृत वाक्य अभ्यास
परह्यः प्रधानमन्त्री महोदयः सूरत-नगरे आसीत् 
= परसों प्रधानमंत्री जी सूरत नगर में थे ॥

गुर्जरराज्यवासिनः मम अधिके सखायः सन्ति 
= गुर्जर राज्य में रहने वाले मेरे अधिक मित्र हैं ।

कः कः वयस्यः तत्र आसीत् 
= कौन-कौन मित्र वहां थे ?

कः कः मोदी-महोदयम् अपश्यत् 
= किसने किसने मोदी जी को देखा ?


प्रातः पञ्चवादने जागरणम् अभवत्। 
= प्रातः पाँच बजे जागना हुआ। 

षड्वादने योगासनम् अभवत्।
= छः बजे योगासन हो गया । 

पादोन सप्तवादनतः सार्ध सप्तवादन पर्यन्तं  स्वाध्यायः अपि अभवत् ।
= पौने सात बजे से साढ़े सात बजे तक स्वाध्याय भी हो गया। 

अष्टवादनतः पदोन नववादन पर्यन्तं यज्ञः अभवत्। 
= आठ बजे से पौने नौ बजे तक यज्ञ भी हो गया। 

अधुना नववादनम् जातम् 
= अभी नौ बजे हैं। 

अहं कार्यालयं गच्छामि।
= मैं ऑफिस जा रहा हूँ। 

सायंकाले गृहम् आगमिष्यामि। 
= शाम को घर आऊँगा।


* धनम् ??? 
  = पैसा ??? 

**ददामि ।
   = देता हूँ / देती हूँ  

** ओह , मम पार्श्वे धनं नास्ति।
   = ओह , मेरे पास पैसा नहीं है। 

** गृहात् आनयामि। 
   = घर से लाता हूँ। 

* गृहं किमर्थं गच्छति। 
  = घर क्यों जा रहे हो । 

* मम पार्श्वे धनाकर्षणयन्त्रम् अस्ति। 
  = मेरे पास स्वाइप यंत्र है। 

* तेन एव ददातु। 
  = उसी से दे दीजिये। 

** बहु उत्तमम् ।
   = बहुत अच्छा ।

** मम पार्श्वे धनदम् अस्ति।
    = मेरे पास ATM कार्ड है। 

** अहं तेनैव ददामि।
    = मैं उसी से देता हूँ / देती हूँ।


सः सैनिकः अस्ति ।
= वह सैनिक है ।

तौ सैनिकौ स्तः ।
= वो दो सैनिक हैं 

ते सैनिकाः सन्ति।
= वे सैनिक हैं । 

सैनिकः देशस्य रक्षां करोति।
= सैनिक देश की रक्षा करता है 

सैनिकौ देशस्य रक्षां कुरुतः 
= दो सैनिक देश की रक्षा करते हैं 

सैनिकाः देशस्य रक्षां कुर्वन्ति। 
= सैनिक देश की रक्षा करते हैं।  

ते अस्माकं कृते पीड़ाम् अपि सहन्ते।
= वे हमारे लिये पीड़ाएँ भी सहन करते हैं 

अहं सैनिकान् वन्दे।
= मैं सैनिकों को वन्दन करता हूँ।

आवां सैनिकान् वन्दावहे ।
= हम दोनों सैनिकों को वन्दन करते हैं 

 वयं सैनिकान् वन्दामहे ।
= हम सबसैनिकों को वन्दन करते हैं


संस्कृत वाक्याभ्यासः  
~~~~~~~~~~~~~~ 

सः धीरजः अस्ति । 
= वह धीरज है 

अधुना सः रोदिति । 
= अभी वह रो रहा है 

धीरजः किमर्थं रोदिति ? 
= धीरज क्यों रो रहा है ? 

धीरजस्य धेनुः रुग्णा अस्ति । 
= धीरज की गाय बीमार है 

तस्य धेनुः किमपि न खादति । 
= उसकी गाय कुछ भी नहीं खा रही है 

धेनोः मुखात् फेणः प्रवहति । 
= गाय को मुँह से फेन बह रही है 

एकः गोपालः धेनोः चिकित्सार्थम् आगतवान् अस्ति ।
= एक ग्वाला गाय की चिकित्सा के लिये आया है 

सः गोपालः धेनवे ओषधं ददाति । 
= वह ग्वाला गाय को औषधि देता है 

धीरजः अपृच्छत् ।
= धीरज ने पूछा 

मम धेनुः स्वस्था भविष्यति खलु ?
= मेरी गाय स्वस्थ हो जाएगी न  ?  

गोपालः अवदत् - आम् अवश्यमेव । 
= ग्वाला बोला - हाँ अवश्य ही ।


प्रयागराजे अनेके संस्कृतज्ञाः निवसन्ति। 
= प्रयागराज में अनेक संस्कृतज्ञ रहते हैं। 

अनेके संस्कृतकार्यकर्तारः अपि सन्ति। 
= अनेक संस्कृत कार्यकर्ता भी हैं। 

प्रयागराजे त्रिलोकीनाथः निवसति। 
= प्रयागराज में त्रिलोकीनाथ रहते हैं। 

सः मम मित्रम् अस्ति। 
= वह मेरे मित्र हैं। 

ह्यः त्रिलोकीनाथस्य दूरवाणी आगता। 
= कल त्रिलोकीनाथ का फोन आया। 

बहु सम्यक् संस्कृतवार्तालापः अभवत्। 
= बहुत ही अच्छा संस्कृत वार्तालाप हुआ। 

अहं लोकयाने आसम्। 
= मैं बस में था। 

आवयोः वार्तालापं सर्वे श्रृण्वन्ति स्म। 
= हम दोनों का संवाद सभी सुन रहे थे। 

केचन यात्रिणः संस्कृतसंवादस्य प्रशंसाम् अकुर्वन्। 
= कुछ यात्रियों ने संस्कृत संवाद की प्रशंसा की।

"संस्कृतं बहु सरलम् अस्ति" इति जनाः उक्तवन्तः । 
= "संस्कृत बहुत सरल है" ऐसा लोग बोले।


अद्य बिशु पर्व अस्ति। 
= आज बिशु पर्व है। 

केरलप्रदेशे पर्वणः नाम बिशु अस्ति। 
= केरल में पर्व का नाम बिशु है। 

आसामप्रदेशे बिहु उच्च्यते ।
= आसाम में बिहु कहते हैं। 

ते जनाः पारम्परिकं परिधानं धारयन्ति। 
= वे लोग पारम्परिक परिधान पहनते हैं। 

लोकनृत्यं कुर्वन्ति। 
= लोकनृत्य करते हैं। 

असमजनाः मृदङ्गं वादयन्ति। 
= असम के लोग मृदङ्ग बजाते हैं। 

केरलजनाः पटहं वादयन्ति। 
= केरल के लोग ढोल बजाते हैं। 

तत्र तु वादित्रगणः पटहान् वादयति। 
= वहाँ तो बजानेवाले ढोल बजाते हैं। 

एकः गणः तुर्यं ( तुर्यानि)  वादयति। 
= एक समूह शहनाई बजाता है। 

ह्यः वैशाखी पर्व आसीत् ।
= कल वैशाखी पर्व था। 

पंजाबप्रदेशे वैशाखी पर्व आचर्यते। 
= पंजाब में वैशाखी पर्व मनाते हैं। 

सर्वेभ्यः बैसाखी , बिहु , बिशु च पर्वणः शुभकामनाः। 
= सबको बैसाखी , बिहु , बिहु , बिशु पर्व की शुभकामनाएँ ।


अजायत = पैदा हुआ ।

गतदिने अहं चिकित्सालये आसम् ।
= कल मैं अस्पताल में था ।

तत्र प्रसूतिकेन्द्रम् आसीत् ।
= वहाँ प्रसूति केन्द्र था ।

अहं तत्र त्रीणिघण्टा यावत् आसम् ।
= वहाँ मैं तीन घण्टा तक था ।

मम मित्रस्य गृहे बालिका अजायत। 
= मेरे मित्र के घर बालिका पैदा हुई। 

परिचारिका तां बालिकाम् आनीतवती ।
= नर्स उस बच्ची को लाई । 

सा बालिका रोदिति स्म ।
= वह बच्ची रो रही थी ।

बालिका रोदिति स्म अन्ये सर्वे तां दृष्ट्वा प्रसन्ना: आसन् ।
= बच्ची रो रही थी , अन्य सभी उसको देख कर प्रसन्न थे। 

अहं जातकर्म संस्कारं कारितवान् । 
= मैंने जातकर्म संस्कार कराया। 

ओं प्र ते ददामि मधुनो घृतस्य वेद सवित्रा प्रसूतं मघोनाम्।
आयुष्मान् गुप्तो देवताभिः शतं जीव शरदो लोके अस्मिन् ।।


संस्कृत वाक्य अभ्यासः  
~~~~~~~~~~~~~~ 

ते चत्वारः भ्रातरः आसन् । 
= वे चार भाई थे 

तेषु सः ज्येष्ठतमः आसीत् । 
= उनमें वह सबसे बड़ा था 

तस्य पितुः नाम दशरथः आसीत् । 
= उसके पिता का नाम दशरथ था 

तस्य मातुः नाम कौशल्या आसीत् । 
= उसकी माँ का नाम कौशल्या था 

तस्य गुरोः नाम वसिष्ठः आसीत् । 
= उसके गुरु का नाम वसिष्ठ था 

तस्य भार्यायाः नाम सीता आसीत् । 
= उसकी पत्नी का नाम सीता था 

तस्य जन्म अयोध्यायाम् अभवत् । 
= उसका जन्म अयोध्या में हुआ था 

सः रावणं हतवान् आसीत् । 
= उसने रावण को मारा था 

अद्य तस्य जन्मदिनम् अस्ति 
= आज उसका जन्मदिन है 

सर्वेभ्यः रामनवमी पर्वणः मंगलकामनाः । 
= सभी को रामनवमी पर्व की शुभकामनाएँ

द्वारपालः - कुत्र गन्तुम् इच्छति ? 
             = कहाँ जाना चाहते हैं ? 

अतिथिः - एतस्मिन् आवासपरिसरे मम मातुलः निवसति। 
           = इस कॉलोनी में मेरे मामाजी रहते हैं।

द्वारपालः - भवतः मातुलस्य नाम किम् ? 
            = आपके मामाजी का नाम क्या है ? 

अतिथिः - मम मातुलस्य नाम हरिसिंहः । 
           = मेरे मामाजी का नाम हरिसिंह है। 

द्वारपालः - गृहस्य क्रमांकः कः ? 
            = घर का नम्बर क्या है ? 

अतिथिः - सप्तत्रिंशत्।  (सप्तत्रिंशत्तमम्)
            = सैंतीस     (सैंतीसवाँ ) 

द्वारपालः - भवतः परिचयः  !!!
            = आपका परिचय  !!! 

अतिथिः - स्वीकरोतु मम आधारपत्रम् ....
            = लीजिये मेरा आधार कार्ड .... 

            - मम नाम रणसिंहः ।
            = मेरा नाम रणसिंह है। 

            - अहं सैनिकः अस्मि।
            = मैं सैनिक हूँ। 

द्वारपालः - ओह .. भवान् सैनिकः ... 
             = ओह .. आप सैनिक हैं .... 

द्वारपालः रणसिंहं मातुलस्य गृहं पर्यन्तं नयति। 
= द्वारपाल रणसिंह को मामाजी के घर तक ले जाता है।


--- अखिलेश आचार्य


एक टिप्पणी भेजें

0 टिप्पणियाँ