स्वागतम्

 आइए सरल विधि से संस्कृत में बात करना सीखें । यहाँ 👇🏻 क्लिक किजिए और प्रतिदिन क्रमशः एक एक पाठ का अभ्यास किजिए 👇🏻

Click here क्लिक क्लिक 



58) संस्कृत वाक्य अभ्यास

 संस्कृत वाक्य अभ्यास

Sanskrit Sentence Study



संस्कृत वाक्य अभ्यास


अहम् नास्मि = मैं नहीं हूँ 


वयं न स्मः       = हम सब नहीं  हैं 


अहं वृद्धः नास्मि।  = मैं वृद्ध नहीं हूँ।


अहं वृद्धा नास्मि।  = मैं वृद्धा नहीं हूँ।


अहं दुर्बलः नास्मि।  = मैं दुर्बल नहीं हूँ।


अहं दुर्बला नास्मि।  = मैं दुर्बला नहीं हूँ। 


अहं तव शत्रुः नास्मि = मैं शत्रु नहीं हूँ।


अहं अस्वस्थः/अस्वस्था नास्मि।   = मैं अस्वस्थ नहीं हूँ।


सः नास्ति = वह नहीं है (पुंलिङ्ग) 

सा नास्ति = वह नहीं है (स्त्रीलिंग) 


एषः नास्ति = यह नहीं है (पुंलिङ्ग) 

एषा नास्ति = यह नहीं है (स्त्रीलिंग)


सः अपराधी नास्ति = वह अपराधी नहीं है। 


सा निर्धना नास्ति = वह निर्धना नहीं है। 


किशोरः गृहे नास्ति।

= किशोर घर में नहीं  है। 


रजनी मम छात्रा नास्ति। 

= रजनी मेरी  छात्रा नहीं  है। 


तथैव सरलवाक्यानाम् अभ्यासं कुर्वन्तु। 

= इसी प्रकार सरल वाक्यों का अभ्यास करें। 



संस्कृत वाक्य अभ्यासः  

Для друзів України

~~~~~~~~~~~~~~ 

मम नाम अखिलेशः ।

= मेरा नाम अखिलेश है ।

My name is Akhilesh.

Мене звуть Ахілеш.


पञ्च वर्षाणि अभवन् ।

= पाँच वर्ष हो गए हैं ।

It has been five years.

Минуло п’ять років.


अहम् आमुखपटले संस्कृत-वाक्यानि लिखामि ।

= मैं फेसबुक पर संस्कृत वाक्य लिख रहा हूँ ।

I am writing a Sanskrit sentence on Facebook.

Я пишу санскритський вирок у Facebook.


आमुखपटल-माध्यमेन संस्कृत-भाषायाः प्रचारं करोमि ।

= फेसबुक के माध्यम से संस्कृत भाषा का प्रचार करता हूँ ।

I promote Sanskrit language through Facebook.

Я пропагую санскритську мову через Facebook.


सरलानि वाक्यानि लिखामि ।

= सरल वाक्य लिखता हूँ ।

Let me write a simple sentence.

Дозвольте написати просте речення.


अधुना अहं मम फलके लिखामि ।

= अब मैं अपने प्रोफाइल पर लिखता हूँ ।

Now I write on my profile.

Зараз я пишу у своєму профілі.


"Online संस्कृतशिक्षणम्" समूहे अपि अहमेव लिखामि ।

= ओनलाईन संस्कृतशिक्षणम् समूह पर भी मैं ही लिखता हूँ ।

I also write on the online Sanskrit Shikshanam group.

Я також пишу на інтернет-групі санскритів Шикшанам.


अहं कदापि मम नाम न लिखामि ।

= मैं कभी अपना नाम नहीं लिखता हूँ ।

I never write my name.

Я ніколи не пишу своє ім’я.


तस्य कारणम् अस्ति यत् 

= उसका कारण है कि 

That is why

Ось чому


संस्कृत-भाषा सर्वेषां भाषा अस्ति ।

= संस्कृत भाषा सबकी भाषा है ।

Sanskrit language is the language of everyone.

Мова санскриту - це мова кожного.


कस्य अपि एकस्य भाषा नास्ति ।

= किसी भी एक की भाषा नहीं है ।

Немає мови жодної.

There is no language of any one.




अहम् आलस्यं त्यजामि । 

= मैं आलस छोड़ रहा हूँ / रही हूँ ।


अहम् आलस्यं त्यक्ष्यामि। 

= मैं आलस छोड़ूँगा / छोडूँगी ।


अहम् आलस्यं त्यक्तवान् / त्यक्तवती ।

= मैंने आलस्य छोड़ दिया। 


भवान् / भवती आलस्यं त्यजतु। 

= आप आलस छोड़ दीजिये। 


सः / सा आलस्यं त्यजति। 

= वह आलस छोड़ता है / छोड़ती है। 


सः / सा आलस्यं त्यक्ष्यति। 

= वह आलस छोड़ेगा  / छोड़ेगी।


सः / सा आलस्यं त्यक्तवान् / त्यक्तवती । 

= उसने  आलस छोड़ दिया ।


भवान् / भवती कदा आलस्यं त्यक्ष्यति ? 

= आप कब आलस छोड़ेंगे / छोड़ेंगी ?


जयदीपः आलस्यं त्यक्त्वान्। 

= जयदीप ने आलस छोड़ दिया। 


शोभना आलस्यं त्यक्तवती। 

= शोभना ने आलस छोड़ दिया।


अहं आलस्यं त्यक्त्वान्। 

= मैंने  आलस छोड़ दिया। 


अहं आलस्यं त्यक्तवती। 

= अहं आलस छोड़ दिया।



वयं स्मः = हम सब हैं। 


वयं भारतीयाः स्मः। 

= हम भारतीय हैं। 


वयं छात्राः स्मः।

= हम सब छात्र हैं। 


वयं कृषकाः स्मः।

= हम किसान हैं। 


ते सन्ति।    = वे हैं।  (पुंलिङ्ग)

ताः सन्ति।  = वे हैं । ( स्त्रीलिंग) 

तानि सन्ति। = वो हैं  ( नपुंसकलिंग) 


ते वृद्धाः सन्ति।

= वे वृद्ध हैं। 


ते सैनिकाः सन्ति।

= वे सैनिक हैं। 


ते कृषकाः सन्ति।

= वे किसान हैं। 


ताः युवत्यः सन्ति।

= वे युवतियाँ हैं। 


ताः नृत्याङ्गनाः सन्ति।

= वे नृत्यांगनाएँ हैं। 


ताः धेनवः सन्ति।

= वे गौएँ हैं। 


तानि मन्दिराणि सन्ति।

= वो मंदिर हैं। 


तानि पुस्तकानि सन्ति।

= वो पुस्तकें हैं। 


तथैव सरलवाक्यानाम् अभ्यासं कुर्वन्तु। 

= इसी प्रकार सरल वाक्यों का अभ्यास करें। 



दूरं गच्छ ....  दूरम् अपसर ।

= दूर जाओ ... दूर  हटो । 

Go away ... move away.


इतः दूरं गच्छ ..... 

= यहाँ से दूर जाओ .... 

get away from here ....


तत्र उपविश ..... 

= वहाँ बैठो .... 

Sit there ....


तत्र उपविश्य छिक्क ... 

= वहाँ बैठ के छींको ...  

Sit there and sneeze…


यावत् छिक्कसि ....

= जब तक छींकते हो .... 

Until you sneeze…


तावत् अत्र मा आगच्छ ।

= तब तक यहाँ मत आना ।

Until then don't come here.आ


यदा छिक्कसि ... 

= जब छींकते हो ... 

When you sneeze…


तदा मुखस्य अग्रे करवस्त्रं स्थापय ।

= तब मुँह के आगे रुमाल रखो ।

Then put a handkerchief in front of the mouth.


करवस्त्रं सर्वदा स्थापनीयम् । 

= रुमाल हमेशा रखना चाहिये । 

A handkerchief should always be kept.


त्वं तु करवस्त्रं न स्थापयसि ।

= तुम तो रुमाल नहीं रखते हो ।

You do not keep a handkerchief.


यत्र तत्र छिक्कसि ।

= जहाँ तहाँ छींकते हो ।

Where you sneeze.


बहु उच्चै: छिक्कसि ।

= बहुत जोर से छींकते हो । 

You sneeze very hard.


औषधं किमर्थं न स्वीकरोषि ?

= दवाई क्यों नहीं लेते हो ?

Why don't you take medicine?



वयं न स्मः = हम सब नहीं हैं। 


वयं पाकिस्तानिनः न स्मः। 

= हम पाकिस्तानी नहीं हैं। 


वयं दुर्बलाः न स्मः।

= हम सब दुर्बल नहीं  हैं। 


वयं वञ्चकाः न स्मः।

= हम ठग नहीं हैं। 


ते न सन्ति।    = वे नहीं  हैं।  (पुंलिङ्ग)

ताः न सन्ति।  = वे नहीं हैं । ( स्त्रीलिंग) 

तानि न सन्ति। = वो नहीं हैं  ( नपुंसकलिंग) 


ते वृद्धाः न सन्ति।

= वे वृद्ध नहीं  हैं। 


ते मूर्खाः न सन्ति।

= वे मूर्ख नहीं हैं। 


ते निर्दोषाः न सन्ति।

= वे निर्दोष नहीं हैं। 


ताः सामान्याः युवत्यः न सन्ति।

= वे सामान्य युवतियाँ नहीं हैं। 


ताः नृत्याङ्गनाः न सन्ति।

= वे नृत्यांगनाएँ नहीं  हैं। 


ताः अशिक्षिताः न सन्ति।

= वे अशिक्षित नहीं हैं। 


तानि फलानि मधुराणि न सन्ति।

= वे फल मीठे नहीं  हैं। 


तानि पुस्तकानि भवतः न सन्ति।

= वो पुस्तकें आपकी नहीं  हैं। 


तथैव सरलवाक्यानाम् अभ्यासं कुर्वन्तु। 

= इसी प्रकार सरल वाक्यों का अभ्यास करें। 



ह्यः एकस्य मित्रस्य  गृहं गतवान् अहम् ।

= कल मैं एक मित्र के घर गया था। 


तस्मै बीमापात्राणि देयानि आसन्। 

= उसे बीमा के कागजात देने थे। 


सः द्वारम् उद्घाटितवान्।

= उसने दरवाजा खोला। 


सः अवदत् - शीघ्रम् अन्तः आगच्छतु।

= वह बोला - जल्दी से अंदर आओ। 


बहु शीतलं वायुः प्रवहति।

= बहुत ठंडी हवा बह रही है। 


मम हस्तः अपि शीतलः अभवत्। 

= मेरा हाथ भी ठंडा हो गया है। 


(मम हस्तौ अपि शीतलौ अभवताम् 

= मेरे दोनों  हाथ भी ठंडे हो गए हैं । )


सः भार्याम् आहूतवान् ।

= उसने पत्नी को बुलाया । 


ओ ... एतस्मै हरिद्रायाः दुग्धं देहि। 

= ओ ... इसको हल्दी वाला दूध दो। 


ऊष्णम् .... हं ... 


सा हरिद्रायाः दुग्धम् आनीतवती। 

= वह हल्दी वाला दूध लाई। 


अहं हरिद्रादुग्धं पीत्वा कार्यालयं गतवान्। 

= मैं हल्दीवाला दूध पीकर कार्यालय गया।




तस्य उपनेत्रं पतितम् ।

= उसका चश्मा गिर गया। 


उपनेत्रं भग्नं जातम् ।

= चश्मा टूट गया। 


सम्पूर्णं न अपितु एकमेव कञ्चकं भग्नं जातम् 

= पूरा नहीं बल्कि एक ही काँच टूट गया ।


सः उपनेत्रम् उन्नीतवान् ।

= उसने चश्मा उठाया। 


उपनेत्रस्य आपणे नीतवान्। 

= चश्मे की दूकान में  ले गया। 


नूतनं कञ्चकं स्थापितवान्। 

= नया काँच लगवाया । 


अधुना तस्य उपनेत्रं सम्यक् अभवत्। 

= अब उसका चश्मा ठीक हो गया है।


उपनेत्रं ध्यानपूर्वकं धारणीयम् ।

= चश्मा ध्यान से पहनना चाहिये। 


प्रातःकाले गोमूत्रेण नेत्रं प्रक्षालयन्तु।

= सुबह गोमूत्र से आँख धोएँ। 


तेन दृष्टिः वर्धते। 

= उससे दृष्टि बढ़ती है।


अद्य = आज 

श्वः   = आने वाला कल

परश्वः = आने वाला परसों 

प्रपरश्वः = आने वाला तरसों


ह्यः = बीता हुआ कल 

परह्यः = बीता हुआ परसों 

प्रपरह्यः = बीता हुआ तरसों 


भवान् ह्यः न आगतवान् !!! 

= आप कल नहीं आए !!! 


भवती ह्यः न आगतवती !!! 

= आप कल नहीं आईं !!! 


अद्य अवश्यम् आगच्छतु ।

= आज अवश्य आईये ।


श्वः मा आगच्छतु ।

= कल मत आईये ।


श्वः , परश्वः च अहं बहिः गच्छामि ।

= कल और परसों मैं बाहर जा रहा हूँ / रही हूँ ।


पर ह्यः अपि अहं बहिः आसम् ।

= परसों भी मैं बाहर था /थी ।

संस्कृत वाक्य अभ्यास - 59 Click Here

-- अखिलेश आचार्य




एक टिप्पणी भेजें

0 टिप्पणियाँ